SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अनादिबन्धः सह कर्मणा यः , जीवस्य तस्य च्युतिरेव मुक्तिः । द्रव्यत्वतो यत्र विभाति जीवः , यथा सुवर्ण इषदा वियुक्तम् ॥ १० ॥ अनादिसंयोगत एव युक्तौ , पाषाण - धातूज्वलनेन भिन्नौ। ज्ञानक्रियाभ्यां हि तथैव जीवः , __ अनादिबन्धात् खलु मुक्तिमेति ॥ ११ ॥ मोक्षस्तु सत्यः कथितो मनीषिन् , खपुष्पवन्नव कदाप्यसत्यः । मुक्तात्मनो नैव हि कर्मबन्धः , तस्माच्च मुक्तिः किल साद्यनन्ता ॥ १२ ॥ प्रवाहरूपान्ननु काल एषः , उत्पद्यमानोऽपि भवेदनादिः। तथैव कर्मक्षयतो हि मुक्तिः , भवेदनादिर्बुध ! मानयेत्थम् ॥ १३ ॥ न पुण्यपापक्षयतस्तु मुक्तिः , अभावतो वा सुखदुःखयोहि । तस्मान्न वाच्यः सुख-दुःख-हीनः , व्योमेव मुक्तो भवता प्रभास ! ॥ १४ ॥ ( ४६ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy