________________
दृश्यन्ते । यत्तु वेदेऽपि "मायोपवान्" यदुक्तं तद् देवानामपि अनित्यत्वसूचकमिति ।
अन्यच्च-अपाय सोमं अमृता, अमूम अगम ज्योतिविदाम देवान् किं नूनम्, अस्मद् तृणवद् अरातिः किमु धूर्तिरमृत मर्त्यस्येत्यादीनि । को जानाति मायोपमान् गीर्वाणान् इन्द्रादीन् इत्यादीनि, च एतेषां अयमर्थस्तव चेतसि भासते । स एष यज्ञ एव करितदारण क्षमत्वात् । यज्ञायुधी यजमानोऽञ्जसा-प्रगुणेन न्यायेन स्वर्गलोकं गच्छतीति। तथा अपाय-पीबन्तः सोमरसं अमरधर्मणो अमूम गताः ज्योतिः स्वर्ग अविहाय, देवत्वं प्राप्तास्मः । किं नूनमस्मादूर्ध्वं तृणवत् करिष्यति, कोऽसौ इति-प्राह अराति व्याधिः जरा अमरण धर्माणो मनुष्यस्य किं करिष्यति जरादि इति भावः । तदेवममनि किल वेदपदानि देवसत्ताप्रतिपादकानि 'को जानाति मायोपमानि' सत्ता प्रतिषेधकानि इति तव संशयः ।
किं इत्थं मन्यसे नारकाः किल साक्लिष्टासुरपरमाघार्मिकाः यत् तया कर्मवशतया परतन्त्रत्वात्, स्वयं च दुःखसन्तत्वात् इहागन्तुमक्षमाः वयमपि तत्राऽनेन शरीरेण कर्मवशतया एव गन्तुमशक्ताः। ततः श्रुति-स्मृतिग्रन्थेषु श्रूयमानः । प्रागमप्रामाण्यतः श्रद्धेया भवन्तु । अन्यच्च