SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ इत्यादि । तथा 'पृथिवी देवता आपो देवता' इत्यादि । तेषां वेदपदानामयमर्थः तव प्रतिभासते । अस्यार्थ:-वै निश्चितं, सकलम्-एतत् पृथिव्यादिकं स्वप्नोपमम् असत्, अनेन वेदपदेन तावद् भूतानां अभावः प्रतीयते । अर्थात्-स्वप्नसदृशं वै निपातः। द्यावा पृथिवीत्यादीनि तु सत्ताप्रतिपादकानि, तत: संशयः । तथा एवं ते चित्तभ्रमो यथा भूताभाव एव समीचीनस्तेषां प्रमाणेनाग्रहणात् । "पृथ्वी देवता आपो देवता" इत्यादिभिस्तु भूतसत्ता प्रतीयते इति सन्देहः, किन्तु अविचारितमेतत् । यस्मात् “स्वप्नोपमं वै सकलं' इत्यादीनि पदानि अध्यात्मस्वरूपचिन्तायां स्वर्णस्त्रियादिसंयोगस्य अनित्यत्वसूचकानि, न तु भूतनिषेधपराणि । द्यावा पृथिवीत्यादीनि तु.भूतसत्ताप्रतिपादकानि तवोऽपि प्रतीतानि, ततो वेदसिद्धा सिद्धा भूतानां सत्ता। यदप्युक्तम्-भूताभाव एव समीचीनस्तेषां प्रमाणेनाग्रहणादित्यादि तदप्यसम्यक् । भूतानां प्रमाणसिद्धत्वात्-द्विविधं परमाण रूपं साधारणाऽसाधारणभेदाभ्याम् । तत्र यदसाधारणं रूपं तेन चाक्षुषविज्ञाने न ते प्रतिभासन्ते । साधारणेन तु रूपेण प्रतिभासन्त एव । परमाण नां तथाविधदेशकालादिसामग्री विशेषसापेक्षाणां विवक्षितजलधारणादिक्रियासमर्थः । कुतो
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy