________________
[ १९ ]
आहारस्य रसोपलम्भार्थमचर्वणात्, कथम्भूतमाहारम् !-बिलमिव असंस्पर्शनपत्, नागो हि बिलमसंस्पृशन् आत्मानं तत्र प्रवेशयति, एवं भगवानप्याहारमसंस्पृशन् रसोपलम्भानपेक्षः सन्नाहारयतीति ।
'दोच्चं पि' त्ति द्विरपि द्वितीयां वाराम् ।
[पृ. ५२] ' अटुंगाउव्वेयपाठए ' त्ति आयुर्वेदो-वैद्यकशास्त्रं 'कुमारभिचं ' ति कुमाराणां-बालकानां भृतौ-पोषणे साधु कुमारभृत्यं, तद्धि शास्त्रं कुमारभरणस्य-क्षीरस्य दोषाणां संशोधनार्थ दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं चेति । 'सलाग' त्ति शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं तन्त्रमपि शालाक्यं, तद्धि ऊर्ध्वजन्तुगतानां रोगाणां श्रवणवदनादिसंश्रितानामुपशमनार्थमिति । 'सल्लहत्ते' ति शल्यस्य हत्या हननमुद्धार इत्यर्थः शल्यहत्या तत्प्रतिपादकं शास्त्रं शल्यहत्यमिति । 'कायतिगिच्छि ' त्ति कायस्य ज्वरादिरोगग्रस्तशरीरस्य चिकित्सा-रोगप्रतिक्रिया यत्राभिधीयते तत्कायचिकित्सैव, तत्तन्त्रं हि मध्याङ्गसमाश्रितानां वरातिसारादीनां शमनार्थमिति । 'जंगोले' त्ति विषधातक्रियाऽभिधायकं जङ्गोलं-अगदं तत्तन्त्रं तद्धि सर्पकीटलूतादष्टविनाशार्थ विविधविषसंयोगोपशमनार्थं चेति । 'भूयेवज्ज' त्ति भूतानां निग्रहार्था विद्या-शास्त्रं भूतविद्या, सा हि देवासुरगन्धर्वयक्षराक्षसाध्युपसृष्टचेतसां शान्तिकर्मबलिकरणादिभिर्ग्रहोपशमनार्था । 'रसायणे' त्ति रसः-अमृतरसस्तस्यायनं–प्राप्तिः रसायनं तद्विधयः-स्थापनमायुर्मेधाकरं रोगोपहरणसमथं च तदभिधायकं तन्त्रमपि रसायनम् , 'वाईकरणे' त्ति अवाजिनो वाजिनः करणं वाजीकरणं-शुक्रवर्द्धने