SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [ २८ ] रिणाम इति, 'तदझवसाणे ' त्ति तस्यामेवाध्यवसानं-भोगक्रियाप्रयनविशेषरूपं यस्य स तथा, 'तदट्ठोवउत्ते' त्ति तदर्थ-तत्प्राप्तये उपयुक्तः-उपयोगवान् यः स तथा, 'तयप्पियकरणे' त्ति तस्यामेवापितानि-ढौकितानि करणानि-इन्द्रियाणि येन स तथा, 'तब्भावणाभाविए' त्ति तद्भावनया-कामध्वजाचिन्तया भावितो-वासितो यः स तथा, कामध्वजाया गणिकाया बहून्यन्तराणि च-राजगमनस्यान्तराणि “छिदाणि य' त्ति छिद्राणि राजपरिवारविरलत्वानि 'विवराणि य' त्ति शेषजनविरहान् 'पडिजागरमाणे' त्ति गवेषयन्निति ॥ 'इमं च णं' त्ति इतश्चेत्यर्थः । 'हाए' इत्यत्र यावत्करणादिदं दृश्यं ‘कयबलिकम्मे ' देवतानां विहितबलिविधानः ‘कयकोउयमंगलपायच्छित्ते 'त्ति कृतानिविहितानि कौतुकानि च-मषीपुण्ड्रादीनि मङ्गलानि च-सिद्धार्थकदध्यक्षतादीनि प्रायश्चित्तानीव दुःस्वप्नादिप्रतिघातहेतुत्वेनावश्यंकरणीयत्वाघेन स तथा ॥ 'मणुस्सवग्गुरापरिक्खित्ते' त्ति मनुष्या वागुरेव-मृगबन्धनमिव सर्वतो भवनात् तया परिक्षिप्तो यः स तथा ॥ 'आसुरुत्ते ' त्ति आशु-शीघ्रं रुप्तः क्रोधेन विमोहितो यः स आशुरुप्तः आसुरं वा-असुरसत्कं कोपेन दारुणत्वादुक्तं-भणितं यस्य स आसुरोक्तः रुष्ट:-रोषवान् — कुविए ' त्ति मनसा कोपवान् ' चंडि
SR No.002313
Book TitleVivagsuyam
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy