________________
[ २७ ]
सम्बन्धिनः-श्वसुरपाक्षिकाः, ‘रोयमाणी' त्ति अश्रूणि मुञ्चन्ती 'कंदमाणी' ति आक्रन्दं महाध्वनि कुर्वाना 'विलवमाणी' ति आर्तस्वरं कुर्वन्ती ।
'अणोहट्टए' त्ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टकस्तदभावादनपधट्टकः, 'अणिवारिए' त्ति निषेधकरहितः, अत एव 'सक्छंदमइ । त्ति स्वच्छन्दा स्वदशेन वा मतिरस्य स्वच्छन्दमतिः, अत एव ' सइरप्पयारे' स्वैरं-अनिवास्तितया प्रचारो यस्य स तथा 'वेसदारपसंगी ति वेश्याप्रसङ्गी कलत्रप्रसङ्गी चेत्यर्थः, अथवा वेश्यारूपा ये दारास्तत्प्रसङ्गीति ।
'भोगभोगाई' ति भोजनं भोगः-परिभोगः भुज्यन्त इति भोगाः-शब्दादयो भोगार्हाः भोगा भोगभोगा-मनोज्ञाः शब्दादय इत्यर्थः ।
[पृ. २४.] 'मुच्छिए ' त्ति मूच्छितो-मूढो दोषेष्वपि गुणाध्यारोपात् ' गिद्धे ' त्ति तदाकाङ्क्षावान् — गढिए ' त्ति प्रथितस्तद्विषयस्नेहतन्तुसंदर्भितः ‘अज्झोववन्ने' त्ति आधिक्येन तदेकाग्रतां गतोऽध्युपपन्नः । अत एवान्यत्र कुत्रापि वस्त्वन्तरे 'सुईच' त्ति स्मृति स्मरणं 'रइं च' त्ति रति-आसक्ति ‘धिई च' त्ति धृतिं वा चित्तस्वास्थ्यम् ‘अविंदमाणे ' त्ति अलभमानः ' तच्चित्ते' त्ति तस्यामेव चित्तं-भावमतः सामान्येन वा मनो यस्य स तथा 'तम्मणे' त्ति द्रव्यमन: प्रतीत्य विशेषोपयोगं वा · तल्लेस' त्ति कामध्वजागताशुभात्मपरिणामविशेषः, 'लेश्याहि' कृष्णादिद्रव्यसाचिव्यजनित आत्मप