________________
समायरेत्ता केसि वा पुरापोराणाणं दुच्चिन्नाणं दुप्पडिक्कंताणं असुहाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विहरइ 'त्ति ॥
'गोयमा इत्ति गौतम इत्येवमामन्त्र्येति गम्यते ॥
'रिद्वित्थिमिए 'त्ति ऋद्धिप्रधानं स्तिमितं च-निर्भयं यत्तथा, 'वण्णओ 'त्ति नगरवर्णकः, स चौपपातिकबद्दष्टव्यः, 'अदर-सामंते' त्ति नातिदूरे न च समीपे इत्यर्थः, 'खेडे 'त्ति धूलीप्राकारं ॥ 'रिद्ध' त्ति 'रिस्थिमियसमिद्धे ' इति द्रष्टव्यम् ; ' आभोए 'त्ति विस्तारः 'रटउडे 'त्ति राष्ट्रकूटो-मण्डलोपजीवी राजनियोगिकः ॥
'अहम्मिए 'त्ति अधार्मिको यावत्करणादिदं दृश्यम्-' अधम्माणुए अधम्मिटे अधम्मपलोई अधम्मपलजणे अधम्मसमुदाचारे अधम्मेणं
चेव वित्तिं कप्पेमाणे दुस्सीले दुवए ' त्ति तत्र अधार्मिकत्वप्रपञ्चनायोच्यते–' अधम्माणुए ' अधर्म-श्रुतचारित्राभावं अनुगच्छतीत्यधर्मानुगः; कुत एतदेवमित्याह-अधर्म एव इष्टो-वल्लभः पूजितो वा यस्य सोऽधमिष्ठः अतिशयेन वाऽधर्मी-धर्मवर्जित इत्यधम्मिष्ठः, अत एवाधर्माख्यायी-अधर्मप्रतिपादकः अधर्मख्यातिर्वा-अविद्यमान धर्मोऽयमित्येवंप्रसिद्धिकः, तथाऽधर्म प्रलोकयति-उपादेयतया प्रेक्षते यः स तथा, अत एवाधर्मप्ररजनः-अधर्मरागी अत एवाधर्मः समुदाचारः-समाचारो यस्य स तथा, अत एवा धर्मेण-हिंसादिना वृत्ति-जीविकां कल्पयन् सन् दुःशील:-शुभस्वभावहीनः दुर्वतश्च-व्रतवर्जितः दुष्प्रत्यानन्दःसाधुदर्शनादिना नानन्यन्त इति ।