________________
[ ८ ] ‘से जहानामए' त्ति तद्यथा नामेति वाक्यालङ्कारे ।
'अहिमडे इ वा सप्पकडेवरे इ वा' इह यावत्करणात् 'गोमडे इ वा सुणहमडे इ वा' इत्यादि द्रष्टव्यम् ॥
'तओ वि णं 'ति ततोऽपि-अहिकडेवरादिगन्धादपि ।
'अणिद्वतराए चेव 'त्ति अनिष्टतर एव गन्ध इति गम्यते, इह यावत्करणात् ' अकंततराए चेव अपियतराए चेव अमणुन्नतराए चेव
चेव अमणासतराए चेव 'त्ति दृश्यम्, एकार्थाश्चैते । 'मुच्छिए ' इत्यत्र 'गढिए गिद्धे अझो बन्ने' इति पदत्रयमन्यद् दृश्यम्, एकार्थान्येतानि चत्वार्यपीति ॥
'अज्झथिए' इत्यत्र 'चिंतिए कपिए पत्थिए मणोगए संकप्पे' इति दृश्यम्, एतान्यप्येकार्थानि । ___'पुरापोराणाणं दुच्चिन्नाणं' इहाक्षरघटना 'पुराणानां' जरठानां कक्खरडीभूतानामित्यर्थः 'पुरा' पूर्वकाले 'दुश्चीर्णानां' प्राणातिपातादिदुश्चरितहेतुकानां 'दुप्पडिकंताणं' ति दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानां-अनिवर्तितविपाकानामित्यर्थः, 'असुभाणं 'ति अमुखहेतूनां 'पावागं 'ति पापानां दुरात्वभावानां 'कम्माणं 'ति ज्ञानावरणादीनाम् ॥
[पृ. ९.] 'पुव्वभवे के आसि' इत्यत एवमध्येयं-' किंनामए वा किंगोत्ते वा' तत्र नाम यादृच्छिकमभिवानं गोत्रं तु-यथार्थकुलं वा ' कयरंसि गामंसि वा नगरंसि वा किं वा दच्चा किं वा मोचा किं वा