________________
'रहस्सियं 'ति राहसिके जनेनाविदिते 'फुट्टहडाहडसीस 'त्ति स्फुटितकेशसंचयत्वेन विकीर्णकेशं 'हडाहर्ड 'ति अत्यर्थं शीर्ष-शिरो यस्य स तथा, ' मच्छियाचडकरपहयरेणं'ति मक्षिकाणां प्रसिद्धानां चटकरप्रधानो–विस्तरवान् यः प्रहकरः-समूहः स तथा अथवा मक्षिकाचटकराणां-तद्वन्दानां यः प्रहकरः स तथा तेन ‘अणिज्जमाणमग्गे'त्ति 'अन्चीयमानमार्गः ' अनुगम्यमानमार्गः, मलाविलं हि वस्तु प्रायो मक्षिकाभिरनुगम्यत एवेति ‘कालणवडियाए 'त्ति कारुण्यवृत्त्या - वित्तिं कप्पेमाणे 'त्ति जीविकां कुर्वाणः ॥ ___जाव समोसरिए 'त्ति इह यावत्करणात् 'पुव्वाणुपुल्विं चरमाणे गामाणुगामं दूइज्जमाणे' इत्यादिवर्णको दृश्यः, 'तं महया जणसदं च 'त्ति सूत्रत्वान्महाजनशब्दं च, इह यावत्करणात् 'जणबृहं च जणबोलं चे' त्यादि दृश्य, तत्र जनव्यूहः-चक्राचाकारः समूहस्तस्य शब्दस्तदभेदाज्जनव्यूह एवोच्यतेऽतस्त बोल:-अव्यक्तवर्णो ध्वनिरिति ।
'इंदमहे इ वत्ति इन्द्रोत्सवो वा, इह यावत्करणात् ' खंदमहे वा रुद्दमहे वा जाव उज्जाणजत्ता इ वा, जन्नं बहवे उग्गा भोगा जाव एगदिसिं एगाभिमुहा' इति दृश्यम् , इतो यद्वाक्यं तदेवमनुसर्त्तव्यं, सूत्रपुस्तके सूत्राक्षराण्येव सन्तीति, 'तए णं से पुरिसे तं जाइअंधपुरिसं एवं वयासी-नो खलु देवाणुप्पिया ! अज्ज मियग्गामे नयरे इंदमहे इ वा जाव जत्ता इ वा जन्नं एए उग्गा जाव एगदिसिं एगाभिमुहा णिग्गच्छंति, एवं खलु देवाणुप्पिया ! समणे भगवं महावी रे जाव इह समागए इह संपत्ते इहेव मियग्गामे णगरे मिगवणुज्जाणे अहापडिरूवं