________________
[
५
]
नवरम् ‘उज्झियए 'त्ति उज्झितको नाम सार्थवाहपुत्रः २, 'अभग्ग' त्ति सूत्रत्वादभग्नसेनो विजयाभिधानचौरसेनापतिपुत्रः ३, 'सगडे 'त्ति शकटाभिधानसार्थवाहसुतः ४, 'बहस्सइ 'त्ति सूत्रत्वादेव बृहस्पतिदतनामा पुरोहितपुत्रः ५, नंदी' त्ति सूत्रत्वादेव नन्दिवर्द्धनो राजकुमारः ६, 'उंबर 'त्ति सूत्रत्वादेव उदुम्बरदत्तो नाम सार्थवाहसुतः, 'सोरियदत्ते' शौरिकदत्तो नाम मत्स्यबन्धपुत्रः ८, चशब्दः समुच्चये 'देवदत्ता यत्ति देवदत्ता नाम गृहपतिसुता ९, चः समुच्चये 'अंजू य' त्ति अञ्जूनामसार्थवाहसुता १०, चशब्दः समुच्चये, इति गाथासमासार्थः, विस्तरार्थस्तु यथास्वमध्ययनार्थावगमादवगम्य इति ।।
एवं खलु'त्ति ' एवं ' वक्ष्यमाणप्रकारेण 'खलु' वाक्यालङ्कारे सव्वोउयवण्णओ 'त्ति सर्वर्तुककुसुमसंछन्ने नंदणवणप्पगासे इत्यादिरुद्यानवर्णको वाच्य इति, चिराइए 'त्ति चिरादिकंचिरकालीनप्रारम्भमित्यादिवर्णकोपेतं वाच्यं, यथा पूर्णभद्रचैत्यमौपपातिके।
[पृ. ५] 'अहीणवन्नओ'त्ति 'अहीणपुन्नपंचिंदियसरी रे' इत्यादिवर्णको वाध्यः ‘अत्तए 'त्ति आत्मजः-सुतः ‘जाइअंधे' त्ति जात्यन्धो-जन्मकालादारभ्यान्ध एव 'हुंडे यत्ति हुण्डकश्च सर्वावयवप्रमाणविकलः । 'वायव्वे 'त्ति वायुरस्यास्तीति वायवो-वातिक इत्यर्थः, ' आगिई आगिइमेत्ते 'त्ति अङ्गावयवानामाकृतिः-आकारः किंविधा ? इत्याह-आकृतिमात्रं-आकारमात्रं नोचितस्वरूपमित्यर्थः ।