________________
६२
भानुचन्द्रगणिचरित-परिशिष्ट
जीयात् श्रीमदुदारवाचकसभालंकारहारोपमो, लोके संप्रति हेमसूरिसदृशः श्री भानुचन्द्रश्चिरम् । श्री शत्रुजयतीर्थशुल्कनिवप्रत्याजनोद्यद्यशाः, शाहिश्रीमदकब्बरार्पित 'महोपाध्याय' दृप्यत्पदः ॥२॥
शाहेरकव्वरधराधिपमौलि मौलेश्चेतःसरोरुहविलासषडंहितुल्यः।
विद्वच्चमत्कृतकृते बुधसिद्धिचन्द्रः काव्यप्रकाशविवृतिं कुरुतेऽस्य शिष्यः ॥ ३॥ ग्राद्याः क्वापि गिरो गरोरिह परं दप्यं परेषां वचो. वन्दं मन्दधियां वथा विलपितं नास्माभिस्टंकितम अत्र स्वीयविभावनैकविदितं यत्कल्पितं कौतुकाद्, वादिव्यूहविमोहनं कृतधियां तत्प्रीतये कल्पताम् ॥ ४॥
पररचितकाव्यकण्टकशतखण्डनताण्डवं कुर्मः।
कवयो द्यदुर्दुरूढाः (?) स्वैरं खेलन्तु काव्यगहनेपु ॥५॥ तत्रादावनुवादपूर्वकं काव्यप्रकाशखण्डनमाख्यातनियतिकृतनियमरहितामाल्हादैकमयीमनन्यपरतत्रां.............।
अन्ते -कवेगिरां यद् यदवादि दूपणं पुरातनैर्गडरिकाप्रवाहतः।
इदं सुवर्ण कृतमस्य खण्डनं मया वुधानां हृदयस्य भूषणम् ॥१॥ प्रतापकृद् भानुरिवाहितानामानन्दकृच्चन्द्र इवेतरेषाम् । युक्तं तवैतत् किल वाचकेन्द्रधीभानुचन्द्रान्वयसंभवस्य ॥२॥ भानुः प्रतापं न च दृक्प्रमोदं दृग्मोदमिन्दुर्न पुनः प्रतापम् । तनोषि चैतद द्वयमप्यधीश तस्मादमूभ्यामधिकोऽसि नूनम् ॥३॥ कथं प्रभोऽपाकुरुषे प्रतापयशःप्रभाभिर्वत भानुचन्द्रौ । त्वं भानुचन्द्रानुचरोत्तमोऽपि यद् वा चरित्रं महतामचर्च्यम् ॥४॥ स्वस्यापरेषामपि कार्यसिद्धिं विधानतः सिद्धपदप्रतिष्ठा ।
जगजनानन्दविधायकत्वाद् यदाह्वये चन्द्रपदव्यवस्था ॥५॥ ......प्रस्थापितः स्वविषयात् पादशाह श्री अकब्बर सूर्यसहस्रनामाध्यापक श्री शत्रुजयतीर्थकरमोचनाचनेकसकृतविधापक महोपाध्याय श्री भानुचन्द्रगणिशिप्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाह श्री अकब्बर प्रदत्त पु(खु)स्फूहमापराभिधान महोपाध्याय श्री सिद्धचन्द्रगणिविरचिते काव्यप्रकाशखण्डने दशम उल्लासः समाप्तः। श्रीरस्तु शुभमस्तु संवत् १७२२ वर्षे पोसवदि १० गुरौ लिखितं श्री पार्श्वनाथप्रसादात्. [Folios 62, in the box no. 3, Vimala Gaccha's Bhandara, Dosivada, Vijapur in Gujarat.] ११ अनेकार्थोपसर्गवृत्ति ।
आदौ-ऐं नमः । महोपाध्याय श्री ५ भानुचन्द्रगणिगुरुभ्यो नमः । मूलम्-प्रणम्य श्रीमदर्हन्तं सिद्धिचन्द्रेण धीमता । अमरप्रोक्तनानार्थः पृथक्कृत्य विलिख्यते ॥१॥
टीका-महोपाध्याय श्री ५ भानुचन्द्रगणिगुरुभ्यो नमः । श्रेयाश्रीभ्रंमरीव पङ्कजवनं सौदामिनीवाम्बुदं गङ्गेवाम्बुनिधिं सुधेव शशिनं गौरीच गौरीश्वरम् । छायेवाम्बुजमित्रमाश्रितवती यत्पादपाथोरुहं स श्रीमान् प्रथमप्रभुःप्रतिदिनं पुष्णातु पुण्यश्रियम् ॥१॥ अस्ति श्रीमदखण्डपाठ गणप्राप्तप्रतिष्ठोन्नतिर्भूपालावलिवन्द्यमानचरणः श्री भानुचन्द्रो गुरुः। यत्कीर्ति वनाङ्गणे गुणगणच्छन्ने न मान्ती पुनर्धातुः कर्णगताऽकरोदभिनवब्रह्माण्ड्याच्यामिव ॥२॥
अकवरनृपतेः करस्थमुद्राङ्कितवहुशासनपत्रपत्रिणा यः।
करमखिलमनाशयत् प्रजानां करनिकरैरिव भानुरन्धकारम् ॥ ३॥ तस्यास्त सविधे विधेयजगतीलोकमरो मूर्तिमान् , विद्वद्वन्दगजेन्द्रतर्जनहरिः श्रीसिद्धिचन्द्राभिधः। यत्कीर्तिभुजगाङ्गनावलिभिरुद्गीतां समाकर्ण यन् , आनन्दामृतपूर्णकर्णकुहरः शेषः सुखं खेलति॥४॥
परेषां यद दूरे हृदयसरणेरस्ति तदिदं, विधानानामष्टोत्तरशतकमालोक्य मदितः। महाराजश्रीमानकवरनृपो यस्य सहसा, भुवि ख्यातामाख्यां सपदि खुष्फहमेति विदधे ॥५॥