________________
चतुर्थ प्रकाश 'मूढः सुदृढनिर्घातमत्यन्तास्फलनं विना । न प्रत्येतीति मौढ्यस्य स्वस्य पश्याधुना फलम् ॥ ३२९ ॥ इत्युक्त्वा क्षितिपः कोपात् प्रचण्डं प्रेरयद् द्विपम् । नदन्नकालकल्पान्तकालमेघमिवोत्कटम् ।। ३३० ॥ आपूर्णगगनोन्मग्रभुवनश्रवणेन्द्रियः। तदाऽभूत् तुमुलः कोऽपि दिग्भित्तिभ्रंसभूरिव ॥ ३३१ ॥ तथाऽप्यक्षुभितान् दृष्ट्वा तानत्यन्तं व्यसेष्मयीत् । आदिशच वने वासं निजाज्ञोल्लङ्घनानृपः ॥ ३३२ ॥ एतदप्युररीकृत्याप्रकम्पास्ते प्रतस्थिरे । श्रीशाहिश्चेति सर्वत्र स्फुरन्मानमलीलिखत् ॥ ३३३॥ 'मद्देशवर्तिभिश्चान्यैर्वने स्थेयं मुमुक्षभिः। निःस्पृहाणां यतीनां यत् स्थितिस्तत्रैव युज्यते ॥ ३३४ ॥ अगण्यपुण्यसौभाग्यशालिनः खीयसन्निधौ । सत्कृत्य शाहिना श्रीमद्वाचकेन्द्रास्तु रक्षिताः ॥ ३३५ ॥ भव्यानां बोधिबीजानि कुर्वन्तो निर्मलानि ते। सिद्धिचन्द्रास्तु संप्राप्ताः श्रीमन्मालपुरं पुरम् ॥ ३३६ ॥ तत्रत्यसङ्घविज्ञप्तेस्तदध्यक्षाग्रहाच ते । पर्जन्यावस्थितिं तत्र चक्रिरे निरुपद्रवम् ॥ ३३७ ॥ अन्येद्युः श्रीसुरत्राणः सभासीनः शुभाशयः । अद्राक्षीद् वाचकान् वीक्षापन्नानिव मुहुर्मुहुः ॥ ३३८॥ 'कस्मात् कश्चिन् महान् खेदः श्रीमतामद्य दृश्यते' ?। अमाक्षीचेति सस्नेहं तानाहूय स्वसन्निधौ ॥ ३३९ ॥ प्रोचुस्ते 'भववासेन खेदो नः परमार्थतः। , निःस्पृहाणां मुमुक्षूणामन्यः कः स्याद् विरागिणाम् ? ॥ ३४०॥ दूरस्थशिष्यरत्नस्य वियोगक्रमसम्भवः। तथाप्येष महाराज ! साम्प्रतं मम बाधते ॥ ३४१ ॥ इति श्रीवाचकप्रोक्तं श्रुत्वा स्मृत्वा च भूविभुः। स्वधर्म दृढतां तेषामिति चित्ते व्यचिन्तयत् ॥ ३४२॥ धिग ! मां मोहवशित्वेन तद्दर्शननिरादरम् । घूकनेत्रमिव ध्वान्तमित्रत्वेनार्कनिःस्पृहम् ॥ ३४३ ॥ स्वागोविषण्णस्तत्रैव निषण्णः स प्रसन्नहम् । आह्वातुं सिद्धिचन्द्राणां स्फुरन्मानमलीलिखत् ॥ ३४४ ॥ तेपि सम्प्राप्य तत् तूर्ण शुभोदर्कमिवात्मनः। विहगैर्वर्द्धितोत्साहाः पुरात् तस्मात् प्रतस्थिरे ॥ ३४५ ॥
भा.