________________
10
15
20
25.
30
श्रीभानुचन्द्रगणिचरित
भवे भवे प्रियापुत्रसंयोगान् लब्धपूर्व्यहम् । न तु धर्म कचित्तं तत् त्यजेयं तत्कृते कथम् ॥ ३९२ ॥ सर्वेभ्योऽपि प्रियाः प्राणास्तेऽपि यांत्वधुनापि हि । न पुनः खीकृतं धर्म खण्डयाम्यल्पमप्यहम् ॥ ३१३ ॥ 'धिक ! कदाग्रहमेतस्य प्राज्ञस्यापि यतोऽमुना । अनल्पोऽल्पकृतेऽनर्थः खस्यारेभे खशत्रुणा ॥ ३१४ ॥ इत्याद्युक्तेऽपि मध्याद्यैः स्वधर्मे निर्भरं दृढाः । मेनिरे तद्वचो नातः क्रुद्धस्तान् नृपतिर्जगौ ॥ ३१५ ॥ 'रे ! रे ! मामवजानासि न मे जानासि विक्रमम् ? । रुष्टः साक्षात् कृतान्तोऽस्मि तुष्टः कल्पद्रुमः पुनः ॥ ३२६ ॥ कदाग्रहविषद्रोस्तत् फलमाप्नुहि संप्रति' ।
इत्युक्त्वाऽऽनाययद् व्यालं करालं कालवनृपः ॥ ३१७ ॥ सुस्निग्धाञ्जनपुञ्जाभः प्रवर्षन् मदवारिभिः । दन्तद्युतिलसद्विद्युत्तडित्वानिव मूर्त्तिमान् ॥ ३१८ ॥ समासो गगनस्येव व्यासो विन्ध्यगिरेरिव । महाक्रूरत्वदीक्षादिगुरुः पितृपतेरिव ॥ ३१९ ॥ शुण्डावलितद्न्ताग्रो गर्जितर्जितदिग्गजः । हग्गोचरस्य नामापि नाशयन् गात्रघट्टनैः ॥ ३२० ॥ पुराश्रेणिकायुग्मकूलंकषमहारयः । हिंसामहापगापूर इव दूरसमुन्नतः ॥ ३२९ ॥ आधोरणैस्तदा तत्रानीतः कोऽपि तदाज्ञया । भृङ्गैर्गीतयशा लुब्धैर्दानवारिणि वारणः ॥ ३२२ ॥ पञ्चभिः कलापकम् । तद्भिया स्तम्भमुन्मुल्य गजा गर्वमिवात्मनः । पलायांचक्रिरे न्यस्य कर्णेभ्योंहिषु चापलम् ॥ ३२३ ॥ पलायमाना हरयो रयोपहतमारुताः । ललङ्घिरे मिथो मार्गरोधक्रोधसमुद्धुराः ॥ ३२४ ॥ क्षणत्करोत्यपि जगन्न येषां पतितं दृशि । वीरैस्तैरप्यहो ! हस्तस्रस्तशस्त्रैः पलायितम् ॥ ३२५ ॥ 'गार्हस्थ्यमुररीकृत्य भुङ्ग भोगान् पुरंधिभिः । देशाधिपत्यं मन्यख गृहाणाश्वगजान् पुनः ॥ ३२६ ॥ इमां शेषामिवाशेषां मदाज्ञां कुरु मुर्द्धनि । न चेत् त्वाममुना नेता कृतान्तातिथितामहम् ॥ ३२७ ॥ राज्ञेत्युक्तेऽथ ते प्रोचुः - 'दुःखं दुःसहमप्यदः । धर्महेतुतयाऽस्माकं गुणायैव भविष्यति ॥ ३२८ ॥