________________
चतुर्थ प्रकाश काश्चीपट्टो नितम्वेऽस्ति मदधःस्थेऽपि नो मयि । इतीव दुःखतस्तस्या मध्यदेशः कृशोऽभवत् ॥ २६२ ॥ अभितः शोभते यस्याः श्यामला कुन्तलावलिः। विधुभ्रमेण वक्त्रस्य रजनीवानुचारिणी ॥ २६३ ॥ वीज्यमानस्य विश्वेन लोचनाचलचामरैः। यत्कण्ठो मुखराजस्य वेत्रासनमिवेक्ष्यते ॥ २६४ ॥ भ्राजेऽनुमीयमाना या विपंची मधुरखरैः। मुक्तावलीव भारत्या यन्मुखे दशनावली ॥ २६५ ॥ अब्ज एव क्रमौ यस्या न हंसो यदसेवत । गतिनिर्जयलज्जैव जानीमस्तत्र कारणम् ॥ २६६ ॥ इत्यस्याः सकले गात्रे महान् दोषोऽयमेव हि। अपि वर्षशतैस्तृप्तिः पश्यतः कस्यचिन्नहि ॥ २६७ ॥ सत्यप्यन्तःपुरे तस्यां रेमे क्षमापतिमानसम् । लक्ष्ये नक्षत्रलक्षेऽपि चक्षुश्चन्द्रतनौ व्रजेत् ॥ २६८ ॥ तदा विश्वम्भराभर्तुः साऽब्रवीत् प्राणवल्लभा। 'तारुण्ये क मनःस्थैर्यमसंभाव्यमिदं वचः' ॥ २६९ ॥ तद्वाक्यश्रवणाजाताहंकारैस्तैरभाणि सा । 'बलक्षाधिपतिः किं न तारुण्येऽभूजितेन्द्रियः ॥ २७॥
तथा चाहुः'सोलह सहस महेलिआं, तुरी अठारह लक्ख । सांइंकेरइ कारणइं, छोड्या सहर बिलक्ख ॥ २७१ ॥ विशेषः कोऽपि नैवास्ति तारुण्य-तदभावयो। पूर्वोपार्जितपुण्यस्य प्रभावादेव तद्भवेत् ॥ २७२॥ आबालतो मनःस्थैर्य केषाश्चिन्न तपखिनाम् । मक्षिकाणामिव व्योनि गमनं नैव हस्तिनाम् ॥ २७३ ॥ ज्यायांसः सन्ति भूयांसो विषयासक्तचेतसः। अतो हि चेतसः स्थैर्ये वृद्धत्वं न प्रयोजकम् ॥ २७४ ॥ स्मयाभिभूता भूयोऽपि सैव तान् प्रत्यभाषत । 'योगस्तु भुक्तभोगानां नृणां प्रान्ते प्रकीर्तितः ॥ २७५ ॥ भुक्तवैव विविधान् भोगान् ये त्यजन्ति त एव हि । लोके स्युस्त्यागिनः सम्यग् नान्ये त्वप्राप्ततद्रसाः ॥ २७६ ॥ अलब्ध विषयास्वादा ये भवन्ति तपखिनः। ते स्युर्वनेचरप्रख्यास्तत्त्वातत्त्वविदो नहि ॥ २७७ ॥ अरुचिः स्यान् नृणां शश्वद् भुज्यमाने च वस्तुनि । तथैव भुक्तभोगस्य विषयेषु न चान्यथा ॥ २७८ ॥