________________
"
श्रीभानुचन्द्रगणिचरित ज्ञानचक्षुषि नैर्मल्यं तत्त्वातत्त्वविलोकनम् । तपस्तपनवद्दत्ते तमाशमनतः सताम् ॥ २४६॥ कृतकादम्बरीपानविघूर्णितविलोचनः । भूयः प्रत्याह भूपस्तान् भीष्मगम्भीरया गिरा ॥ २४७.॥ 'प्रवर्द्धमाने तारुण्ये मीनकेतनसद्मनि । अत्यन्ततरलं चेतः कथं स्थैर्यमुपैति वः ॥ २४८ ॥ सिद्धिचन्द्रस्ततः प्रोचे 'ज्ञानेनैतत् स्थिरीभवेत् । अन्यैरपि यथा व्यालोऽकुशेनाकृष्य रक्षते ॥ २४९ ॥ अभ्यधात् पुनरुवीशो 'भवदुक्तमिदं मया। सम्यक्तया कथं ज्ञातुं शक्यं तद् ज्ञानमन्तरा? ॥२५॥ अभाणि भूयस्तैरेवं 'नात्र ज्ञानमपेक्ष्यते। भूखर्गिणां भवद्भोज्याद् यथास्ति विमुखं मनः ॥ २५१ ॥ अप्यस्माकं तथैवाऽऽस्ते विषयेभ्यः पराङ्मुखम् । अलब्धतद्रसाखादवतामाजन्मतो मनः ॥ २५२॥ खकान्तं चानुयातीनां योषितां वजनादितः। विरक्तं ज्ञायते चित्तं ज्वलने ज्वलनाजनैः॥ २५३ ॥ परब्रह्मणि लीनानां निलीनानां शमाम्बुधौ । शक्रचक्रिष्वदीनानां मीनानां शर्मनीरधौ ॥ २५४ ॥ शुद्धमार्गाध्वनीनानां नवीनानां गुणार्जने। परोपकृत्यधीनानां पीनानां पुण्यकर्मणि ॥ २५५ ॥ परिग्रहविहीनानामदीनानामभिग्रहे। मुनीनामात्मनीनानामीशानां त्रिदशामपि ॥ २५६ ॥ विरक्तं विषयग्रामात्तथा चेतस्तपखिनाम् । नितान्तनि:स्पृहत्वादिगुणैरेवानुमीयते ॥ २५७ ॥ इत्युक्ते तदभिप्राय जानन् राजाऽनुतस्थिवान् । आनन्दमग्नो रोमाश्चस्तोमाश्चिततनुश्विरम् ॥ २५८ ॥ मञ्जरीरूपवृक्षस्य पुष्पेषोरिव कामिनी। प्रभासौभाग्यरत्नस्य लक्ष्मीलावण्यवारिधेः॥ २५९॥ तदग्रमहिषी नूरमहल्लास्ते ऽतिवल्लभा। जितं भासेव वक्त्रेन्दो सीद्यस्याः स्मितं पहिः ॥ २६० ॥ गुम्मम् । अङ्गुलिपल्लवोल्लासि नखांशुकुसुमाश्चितम् । असेवि भूपहरभृङ्गैर्यस्या बाहुलतायुगम् ॥ २६१ ॥