________________
६८
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् स्वय- मग्नि गृहीत्वा स्वस्थाने गतः । ते त्रयोऽपि परस्परं स्व-स्व-प्रहर-विहितं कृत्यं नाकथयन् । तृतीय प्रहरोऽभूत । चतुर्थ-प्रहरे सदयवत्सोऽस्थात् । तदा मृतकमुत्थाय सदयमाहभोः पुरुष द्यूतेन रम्यते । सदयः प्राह-अहो वेताल मम-प्रतिज्ञाऽस्तियः सङ्ग्रामाया थवा घूताय प्रार्थयति तस्य मया तद्दातव्यमेवेति । तेन मया रम्यते । पर मत्र सार-पाशक-सारपट्टादि न किमपि । ततः कथं रम्यते ? तदा मृतकेनोक्तं मां मुञ्च यथैतत्सर्वं गृहीत्वागच्छामि । कुमारेणोक्तं कौतुकवता-एवं कुरु । ततो मृतकस्थेन वेताल एव मदनस्ति(?) प्रश्चाद्गमने प्रज्वलनादि च करोति तदपि वेतालविलसितमेव । अत एष एव निगृह्यते तदा वरमिति विचार्याऽऽह - भो गुह्यक् रम्यते । परं पण-मोचन-योग्यं वस्तु नास्ति मम पार्वे । वेतालो ब्रूते-तवासिरस्तु पणे कुमार।
प्रज्वाल्य तन्मृतकम्-स प्राह-तत्प्रज्वालितं ही वेलाऽभूत । तेऽप्याहः-वयं किं नोत्थापिताः । कुमारो वक्ति- इयति कार्ये बहुभिर्जनैः किं क्रियते । ततः स्नानादिना पवित्रीभूय रात्रिवृत्तं स्व-स्व-कृतं परस्परं कथयन्तस्ते श्रेष्ठि-गृहं जग्मुः । प्रोक्तं च तैः श्रेष्ठिवर देह्यस्माकं स्वकन्यां स-स्वर्ण-लक्ष-द्वयींम् । श्रेष्ठि-श्रेष्ठोऽजल्यत्-एवमेवं चेत्समर्पयामि । तदा न ज्ञायते किं यद् भवतां कन्या-सहिता द्विलक्षी दत्ता भवति । यतः सर्वैरपीयदियत् कृतमयं त्वधुनैवाऽगत्य गृह-मध्ये स्वपिष्यति । ज्ञास्यते कल्य एव । कुमारोऽकथयदियन्ति दिनानि यदागत स्तदेव स्मरे तः परं तस्या गमनं विलोकयेः । श्रेष्ठी प्रोचे-पूर्वैरप्येवमेव प्रोचै । तथाप्यागच्छन् स्थितः तेन देयं श्वरेव दास्ये । ते सर्वे वदन्ति-श्वः कस्य दास्यसि ? वयं तु पान्थाः । अद्यैव ने ज्ञायतेऽस्माकं कुत्र वासो भविष्यति । मार्गे गच्छद्भिरेतदल्पकार्यं विहितम् । ततोऽधुनैव देहि। श्रेष्ठी वक्त्यि एवं बलात्कारेण ग्रहीष्यथ तदा गृहणीथ गृहान्तर्गतमधुनैव । इति वदतां तेषां कलहोऽजनि। श्रेष्ठी राज्ञः पार्वे गतोः ।
यतः - दुर्बलानामनाथानां, महा-कलह-कारिणाम् । उपद्रुतानां स्तेनाद्यैः, सर्वेषां पार्थिवो गतिः ।। ३१७
प्रोक्तं स्वरूपं ज्वालनस्य । बहुभिरप्येवं कृते मम पिताऽऽगच्छत्येव । एतैरद्य ज्वालितोऽद्यैव मार्गयन्ति । कल्पे चेन्नाऽऽगमिष्यति तदोक्तं देयं दास्ये । राजाऽऽह-भोः पान्था युक्तं वदत्येष, श्रेष्ठी। कुमार आह-देव ! पूर्व-ज्वालक-सद्दशो नाहम् । राज्ञोक्तम्-तव ज्वालने कोऽप्यपूर्वः प्रकारः । स आहो-अपूर्व एव । राज्ञा कौतुकिना पृष्टम् । तव ज्वालयतः किमपूर्व जातम्। अथ तैश्चतुभिश्चतुः-प्रहर-भवं स्वं स्वं कृतं चोक्तम् । ततो राजाऽऽह-न भवतां वचनमात्रेण प्रत्येमि