________________
५७
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् आगात् तावता बहुल-धूमं दृष्ट्वा व्याकुल-चित्तो बभूव । लोचने अश्रुपाताविले बभूवतुः । धूमेनाऽकुलत्वं युक्तं परं धूमदर्शने त्वाकुलत्वं चित्रकारि । ततः स चिन्तयति-एतद्भूमेन ज्ञायते निश्चयेन सा चितां प्रविष्टा ततो हृदय-दुःखादितो द्रुतं द्रुतं धावति ।
यतः -
कलहंता भक्खंता, भय-संतत्ता कहाणए लग्गा ।
पिय-दंसण-ओसरिआ, रिवप्पं वच्चंति मग्गम्मि ॥ २७४ यावता सा चिता-मध्ये झम्पां ददाति तावता लोकैः प्रोक्तम्-भोः कोऽपि पटीभ्रमण-संज्ञा कुर्वन् द्रुतं द्रुतं धावन्नागच्छन्नस्ति । क्षणं प्रतीक्षस्व । भट्टेन बलेन स्थापिता सा। तावता सदयः समागतो । हृष्टो भट्टो लोकश्च । कुमारेणोक्तम्-प्रिये किमिदं क्रियमाणमस्ति सा प्राह-स्वामिन् प्रहर-द्वयमेव प्रतिज्ञातमभूत । प्रहर-द्वयातिकमे काष्ठान्युक्तान्येव प्राक् । परं प्रहरत्रयं यावन्मया प्रतीक्षितं भट्टस्यास्य वचसा। दिनान्तोऽभूत । सदयः प्राह ग्रामं गतस्य प्रहराधिकोऽपि लगति कदाचित् ततः सहसैवं कथं क्रियते ।
सा प्राह -
पुनिम-तिही-विरहिओ, जीयइ चंदो स-तेय-परिहीणो ।
वल्लह-विरहे मरणं, होइ पुणो कित्तिअं एअं ॥ २७५ सर्वेषां हर्षः सम्पन्नः । भट्टेन प्रवेशमहश्चके भोजनादिसामग्यपि च । ततः प्रियायै वस्त्रालङ्कारादि दत्तं कुमारेण । सा हृष्टाऽभवतैः । यतः स्त्रीणां प्रथमं यौवन-सौभाग्य-सुन्दरः पतिः प्रमोदप्रदस्तदनु दुकूल-शाटिकादि वरा सुरा कौसुम्भोत्तरीय-वस्त्र-हार-नूपुर झालिनगोदर-कनक चूडि-कङ्कण-प्रमुखा अलङ्कारा मनस्तुष्टि प्रदाः । ततः कुमारेण प्रभाते प्रियायाः प्रोक्तम्-ममौत्सुक्येना गमनादसिफलके तत्रैव स्थिते । तेनाऽद्य गत्वा ते आन यामि । सा प्राह कदागमिष्यथः । कुमारोऽव कल्य एवं कदाचिद् घटी प्रहरो वाऽधिको लगति तदा पुर्ववन् न कार्यम् । सा वक्ति - तत्तथैव तेन विलम्बो न विधेयः । तस्यास्तं निश्चय मत्वा स वत्तिएवं भवतु। . ततः -
चलिओ कुमर रोअंती नारि, अंजण लूहिअ कज्जल वारि ।
अबलि न आवउं बोलिइ वारि, जं मनि भावइ करे तिवारि ॥ २७६ ततो द्राग्गतः स तस्मिन् पुरे । तस्मै श्रेष्ठिने प्रोक्तम्-अहमुक्त-वेलायामागतोऽस्मि। त्वं राज-समीपे गत्वाऽऽत्मानमुच्छृङ्खलं कुरु । श्रेष्ठी प्रोक्तवान्-भोः पापिन् त्वं कस्मादागतोऽसि मरणार्थं चेद्भवानागतो नाभविष्यत्तदाऽहं धन-बलेन सर्व प्राध्वरमकरिष्यं । लोके मम