________________
४४
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम कायस्थेनोदरस्थेन, मातुर्मासं न भक्षितम् । मा दयां तत्र जानीहि, तत्र हेतुरदन्तता ॥ २४१ लेखिनी-कृत-कर्णस्य, कायस्थस्य न विश्वसेत् ।
यमोऽपि वञ्चितो येन, गकारान्तर-रेखया । २४२ तथा च नाथ विश्वासो न कस्याऽपि विधीयते । तथा चोक्तं विवेकविलासे -
विश्वासो नैव कस्यापि, कार्य एषां विशेषतः । पाखण्डिनां तथा क्रूर-सत्त्व-प्रत्यन्त-वासिनाम् ॥ २४३ धूर्तानां प्राङ्निरुद्धानां, बालानां योषितां तथा । स्वर्णकार-जलाग्नीनां प्रभूणां कूट-भाषिणाम् ॥ २४४ नीचानामलसानां च पराक्रमवतां तथा ।
कृतघ्नानां च चौराणां, नास्तिकानां च जातुचित् ॥ २४५ इत्यादिशिक्षामुदित्वा स्थितायां भार्यायां सदयः प्राह- ही नखिनां प्रभुणामपि ममैवंविधमेव विलोक्यते ! अहं कूटेष्वास्फालकः । एवं विधे पुरे मेऽतिलाभे । यद्यकथयिष्यः, तत्पुरं साधुलोकमेव तदा ममकुतो लाभः । ततो भट्टमाकार्य सदयेनोक्तम्-भो भट्ट अहं स्वभार्यां तव गृहे मुक्त्वा प्रतिष्ठानपुरे यामि पञ्च दिनानि । सारा करणीया । स आह मुञ्चात्र निश्चिन्तीभूय। तदा पत्नी प्रोचे-अहमेकाकिनी कथं भट्टगृहे स्थास्यामि ।
यतः
पुस्तिका खटिका नारी, परहस्ते गता सती ।
नष्टा ज्ञेयाऽथवा पुंसा, घृष्टा भुक्ता च लभ्यते ॥ २४६ सदयो ब्रूते भट्ट-समक्षम्-क्षत्रिया भट्टा राजपुत्राणां बान्धवा इति लोकोक्तिर्यतो ये राजपुत्राः सङ्ग्राम-पतितास्तेषामग्नि-प्रदाता । तत्सम्बन्धी कोऽपि न स्यात्तदा तत्र तेषां भट्टाः सम्बन्धिन इति । एते च लोक-विहित प्रौढ-करणीयोन्नति-कारका वीराणां शूर-सभासु वीरचर्याप्रकटनेन यशःस्फाति कराः । तेन त्वामात्म-बान्धव-गृहे मुक्त्वा व्रजन्नस्मि । इत्यादि युवक्त्या पर्यवसाप्य तां तत्र मुक्त्वा स चलिता । गतः पुरासन-तट के जलपानार्थम् । तावता जलहारिण्यो बह्वयः समासन-तटे जलं भरन्ति । एकया पृष्टम्-एष जलं पिबति किं कारणं । परयोक्तम्-भवत्यत्रत्याप्येतन् न जानाति । यत एष आगच्छन् स्वस्त्रीं रुदन्ती वारितवान् । हस्ताभ्यां-सकज्जल नयनाश्रु-पातं लुञ्छितवान् । तदा कज्जलादिलौ स्वहस्तौ स्नेहवशान् नायं धौतंवान एतेन हेतुना ज्ञायते यदस्य नरस्य स्व-स्त्री विषये महास्नेहोऽस्ति । तत् कुमारेण श्रुतम् चिन्तितम्-अहो विलोक्यतां स्त्रीणां चातुर्यम् । ततः पुरं प्रविशतोऽस्यैक ष्टुण्टकञ्छिनभक्त:(नर