________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
३३ यथाऽग्रतश्चल्यतेऽविलम्बेन । मण्डपिकाधिपेन बाढमादर-परेण भोजनानन्तरं तटे गतास्ते सर्वेऽपि वाहन- वस्तु-जातं विलोकयन्ति । उक्तं च - सत्यं यदि वदिष्यथ तदाऽर्धदाणेन छुटिष्यथ । स्तोकेऽपि कूट-कथने समूलं यास्यत्यत्र लिखितं समस्ति । तेन सत्यमेव वाच्यं लिखनीयं च । एवमुक्तेऽपि ते वणिजः कथं शुद्धं लेखयन्ति । प्रायो दाण-कारापणे गृह-धन-संख्यायां च कूट-भाषका एव जनाः स्युः । तैः सर्व लिखितम् । मण्डपाधिपो धूर्ती वक्ति-पाटयन्त मदृष्टावस्त्र वाहनानि । ततः पाटितानि तद्धृदयानीव तानि । मध्येऽलिखापितानि मौक्तिकविद्रुमादीनां पेट-शतानि स्वर्ण-कलशाश्च बहवो निःसता । अपरमपि सर्व द्विगुणं च पश्यति । अर्ध-दाणग्रहणेऽपि त्वमेवं कूटं वदसीति बाढं तर्जयित्वा xxx पातितास्ते सर्वेऽपि । मृगाङ्कस्तेन बाढ मुपलम्भितो बन्धयित्वा चतुष्पथे नीत्वा नीरोत्तारः कृतो लोकसमक्षं कोष्ठके क्षिप्तः । तत्सेवकजनाः साहसाङ्काय विज्ञपयन्ति मृगाङ्क-मोचनार्थम् । एषाऽपकीर्ति र्देशान्तरे यास्यतीति राज्ञा निवेदिते कथमपि मुक्तः स स्वगृहे भोजनाय नीतः । सर्वर्वानपि साहसाङ्केन स्नानदेवार्चनादिभिस्तान् प्रमोद्य सार्थेन भोजनायोपवेशिताः । वर्यतर-भक्ष्य-भोज्यादिभिः प्रीणयति। ततो वाहनसत्कं वस्तु-जातं स्व-गृह आनाया स्थापितं । मृगाकोऽपि द्विगुण-त्रिगुणादि-दानेन मोचनाय कथयति । स वक्ति-प्राणान्तेऽपि त्वां जीवन्तं न मुञ्चामि । तद्धृदयगत-भावमजानम् मृगाङ्कः सर्वं गृहीत्वाऽस्मान्मुश्चेति वक्ति । तथापि न मुक्तः सः । ततस्ते सर्वेऽपि चिन्तापरा जाताः किंकर्तव्यतामूढाः सन्ति । तान् सर्वान् चित्रशालायां समीपे शण्णशय्यायावयशय्यासु स्वाययति सहसाङ्कः । शेष-षण्मासैमण्डपिका-लेखं निर्वालितवान् राज-समक्षं परिपूर्णप्राये मण्डपिकावधौ
एकदा स्वावास-मध्ये मृगाङ्कमेकं स्व-शय्यासन- शय्यायां शाययति । वार्ताभिर्बह्वी रात्रिर्गता । मृगाङ्केनोक्तं-रङ्गवार्तायामस्माकं कथमपि मुश्चिष्यथ ? स आह-हास्येन अधुना मम पातल एक-सेर-घृत मवडायसि तदा मुञ्चामि । स तथा करोति परवशे पतितः । परं सेरघृतं यदा तिष्ठत्येष निद्राण इति विमृश्य घृतं पीतं तेन रे पापिष्ठाधमाधम ? इत्युदित्वा तजिवः । तावत् कपट निद्रासुप्तः स उत्थाय वक्ति-अहो ! व्यवहारी रात्रौ घृतं पिबति रङ्क इव । लज्जितो मृगाः श्याममुखोऽस्थात् । ततो मध्ये गत्वौषधि-वलयं मुक्तम् । स्त्री-रूपं विधाय स्वाभरणानि परिधाय बहिरागात् । प्रोक्तं तस्य-मामुपलक्षयथाः । उपलक्षिता मृगाङ्केण पद्मावती । चमत्कृतश्चिन्तयति-किमेतत् क्षणान्तरे स पृच्छति । ततः सा पादयोः पतित्वा तं क्षामयतिमया त्वं बाढं विगोपितः खेदितश्च, त्वदुक्तं मया कृतम् । मध्ये लात्वा सर्व दर्शितम् । लज्जितः स। वक्ति-कथं कथं कृतं ? सा यथावृत्तान्तं सर्वं प्राह । ततः सोऽपि तां क्षामयति-त्वं मया मुढेन जीवित-सन्देहे क्षिप्ता परं स्व-भाग्येनैव जीविताऽसि । एतन्मम किं कृतं त्वया परं दर्प उत्तारितः । प्रातस्तत्सुहृदस्तत्स्वरूपं ज्ञात्वा मृगावं धिक्कुर्वन्ति-एवं भाक्तिको स्वप्रियां मायाप्रपञ्चेन निर्मानुषे द्विपे त्यजसि । ततः क्रमेण राज्ञोऽग्रे वार्ताऽभूत-देव ! माण्डपिकोऽद्य