________________
३०
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम
अथवा
देहो हिययंवाणि तिण्णि वि चिय निट्टराणि पुरिसाणं । हय-विहिणा विहियाई न याणिमो के हिं वि दलेहिं ॥ १८७ xxx . . . . xxx, दलेहिँ अइ निठुरेहिं निम्मवियं ।
तत्तो अवसेसेहिं कुलिस पि हु निम्मियं मन्ने ॥१८८ ततः साऽपि मानवत्यहङ्कृतितश्चिन्तयति त्वं राजा वयमप्युपासित-गुरु-प्रज्ञाभिमानोन्नत इति । तन्मनोदुःखं निवार्य साहसमवलम्ब्य चिन्तयति-अयं विस्मृतानत्य- ज्ञात्वैव त्यक्ता । नमस्कारौ प्रतिष्ठाप्य -
उपसर्गाः क्षयं यान्ति छिद्यन्ते विघ्न-वल्लयः ।
मनः प्रसन्नतामेति पूज्यमाने जिनेश्वरे ॥१८९ इति ध्यानेन भक्त्या पुष्प-फलैः प्रपूजयति । धर्म-ध्यान-परा स्वकर्म-विपाकं चिन्तयति।
जइ पइसइ पायाले ॥ १९० कि मुससि ॥ १९१ हसंतो हेलपा ॥ १९२
धम्मेण विणा जइ चिंतिआई ॥ १९३ इत्याधुपदेशैः स्वं संधीर्य पापं निर्जरयति । समुद्र-तटे षट्पूलकमालां कृत्वा प्रौढवंशाग्रे बध्नाति । समुद्रान्तः-पतितं चिह्नमिति । रात्रौ वृक्षाग्रे मालकं कृत्वा स्वपिति श्वापदभयेन । फलाहारैर्दिनान्यतिवाहयति । इतश्च सिंहस्थल-द्वीपतः पद्मनाभ-सार्थवाहस्य सप्त वाहनानि तन्मार्ग आजग्मुः । तद्धवज-चिह्नं दृष्ट्वा लोकैरुक्तम्-कोऽप्यत्र मनुष्योऽस्ति । अत्राऽऽनीयते । अन्यथा जल-पथे क्षेमं न स्यात् सांयात्रिकाणाम् मुख्य-व्यवहारिणा जनाः प्रेषिताः । तानागतान् दृष्टवा भयातुरा चिन्तयति-ममैते किं करिष्यन्ति । तैरुक्तं मा भैषीः । तवाऽऽनयनायागताः स्म । तत आनीय व्यवहारिणे दत्ता । पृष्टं स्वरूपम्-तेन । तया पोतभङ्गाद्युक्तं न पतित्यजनं । भोजनमोदकादि दत्तम् । एकान्तरापवासान् xxx तद्रूपमोहितः स तां प्रार्थयति-त्वत्पतिस्तु समुद्रे मग्नः ततस्त्वं मम गृहस्वामिनी भूत्वा सुख-सर्वस्वं भुक्ष्व । सा न शृणोति । तदनन्तरं स्वदेह-कान्ति कृशतायै क्षपण-द्वयेन भुङ्क्ते । स प्रत्यहं प्रार्थनेन । तामुद्वेजयति । ततः सा जिन-पूजानन्तरं वक्ति- हे श्री ऋषभ, दुष्कर्म-चूरक तव पूजाका ममेद्दगदुःख विध्वंसय । इति स्मरन्त्यास्तस्याश्चक्रेश्वरी प्रादुरभूत । देवी प्राह-वत्से तव शील-प्रभावेण जिन-भक्त्या च तुष्टाऽऽगता । तयोक्तम्-मम शीलरक्षा स्यात्नथा कुरु । ततस्तया वातप्रयोगेण तस्य सप्त वाहनानि भग्नानि । पद्मावत्या फलकं प्राप्तम् । दिनत्रयीं कल्लोलैः प्रेरिता जलधो स्थिता । मत्स्यैरुपद्रुताऽपि देवतया समुद्रपतिताऽपि नोद्धृता । त्रिदशैरपि