________________
२७
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् स्वहस्त-कलया तं निर्जित्यास्य पार्वेऽपरवस्त्वभावात् तत् -खङ्गमेव गृह्यते, पश्चादस्मत्पादयोः पतित्वा मार्गयिष्यति तदाऽर्पयिष्यते नाऽन्यथेत्यादि हास्यकरणार्थं तत्राऽऽययुः । तैः प्रणामकरण-पूर्वमुक्तो-द्यूतेन क्रीड त्वामस्माभिः सह । कुमारः प्राह-एवमस्तु । परं पण-मोचने वस्तु किमस्तु । तेऽप्याहुः तवः खङ्गमस्माकं सुवर्णं पण-मोचनेऽस्तु । सदयो मनस्यचिन्तयदेतशालका हास्यकरणार्थमागताः सन्ति । मम तु जय एव भावी । एते जिता अपि सुवर्ण नार्पयिष्यन्ति । हास्येनोत्तारयित्वा मोक्षयन्ति । तेन हस्तगतमेव सुवर्णं करोति । अतोऽवक् । तर्हि स्वर्णमस्मत्पाद्येऽत्र मुञ्चत । तैस्तथाकृते देवी-वरदानानुभावाद् द्यूते स्वर्णकोट्यो जिता बन्धुमोक्ष xx xx xx चतुरेण कुमारेण
___ तदा राजकुमारेण हृष्टोऽसौ । तदा ते राजकुमाराः स्वयं धृष्टा हास्यकरणं मस्तकेऽपतन इति चिन्तयन्तो मौनभाजोऽभवन् । धूर्तो घृष्ठो हि मौनभाग् गृह्णाति स्वर्णकोटीर्दाक्षिण्यान्न मुञ्चति।
यतः -
उल्लोचं प्रीति-दानं च, द्यूत-द्रव्यं कुशीदकम् ।
सुभाषितं च चौर्यं च, सद्यो गृह्णन्ति पण्डिताः ॥ १८० तेन स्वर्णेन सदयः प्रीणयति मार्गण-गणं । यतः -
यैश्च दत्तानि दानानि, पुनातुं च ते क्षमाः ।
शुष्कोऽपि हि नदी-मार्गः खन्यते सलिलार्थिभिः ॥ १८१ राजा जामातृसहितः स्वपुरीमागात् । स्थापितो जामाता कियन्ति दिनानि । एकदा राजा जामातृ-सहितो राजवाटिकायां व्रजन् वन-मध्ये श्रीधर्मघोषसूरीश्वरान् परिच्छद-युतान् दृष्ट्वा वन्दनाय गतो । वन्दिता गुरवः । यतो यतीनां प्रथममाद्येयं धर्मातिथिर्जनेषु धर्मोपदेश-प्रदानमिति गुरुभिर्धर्मोपदेशोऽदायि तथा -
वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिगुरौ नम्रता, विद्यायां व्यसनं स्व-योषिति रतिर्लोकापवादाद्भयम् । भक्तिश्चार्हति शक्तिरात्म-दमने संसर्ग-मुक्तिः खले, येष्वेते निवसन्ति निर्मल-गुणास्तैरेव भूर्भूषित॥ १८२ पुण्यादेव समीहितार्थ-घटना नो पौरुषात् प्राणिनां, यद् भानोभ्रंमतोऽपि नाऽम्बर-पथे स्यादष्टमः सैन्धवः । स्वस्थानात्पदमेकमप्यचलतो विन्ध्यस्य चाऽनेकशो, जोड्यन्ते मद-पालिताः शुभ-यश:-श्री-लम्भिनः कुम्भिनः ॥ १८३