________________
सगण यगण लघवो गुरुश्च स्याद् सा पृथ्वी नाम छन्दः । अर्थाद् यस्मिन् छन्दसि जगण-सगण-जगण-सगण-यगणाः लघुवर्णः गुरुवर्णश्च अष्टभिर्नवभिश्च विश्रामः तत् पृथ्वीनामवृत्तं भवति ।
उदाहरणम्द्वितीयमलिकुतले यदि षडष्टमं द्वादशं ,
चतुर्दशमथ प्रिये गुरुगभीरनाभिहृदे । सपंचदशमन्तिकं तदनु यत्र कान्ते यतिगिरीन्द्रफणिशृत्कुलेर्भवति सुभ्र पृथ्वी हि सा ।।
[ इति श्रुतबोधे श्लोक-४१ ]
अथवास्तुति तव चिकीर्षता जडधियाऽपि यद्वन्गितं ,
मया महिममेदिनीवलयितप्रभाम्बुधे । न तत्र किल विस्मयः किमपि कारणं न स्मय
स्तवाऽतिशय एव मां मुखरयत्यखण्डोदयः ।।
[इतिश्रीजयकेसरिसूरिरचित श्रीकुन्थुनाथ-जिनस्तवने प्रोक्तमिदम् ।]
छन्द-९
छन्दोरत्नमाला-१२९