________________
९०
१७२ संस्कृत व्याकरण-शास्त्र का इतिहास कविपण्डितानामावासः । यदि हरदत्तः प्रोन्ध्रः, अपि च कचिमञ्चिग्रामवासी नाभविष्यत् तदा यादच्छिकवचने कृचिमञ्चीत्यान्घ्रदेशीयं ग्रामं नास्मरिष्यत् ।' द्रविडदेशीयस्य विषये सुतरामसंभवमेवेत्थं वचनम् ।
"तातं पद्मकुमाराख्यम्" इति श्लोके पद्मकुमार इति "ब्रह्मय्य" नाम्नः संस्कृतीकरणम; श्रीरिति "लक्ष्मम्म" इति नाम्नः, अग्निकुमार इति “कोमरय्य" इति नाम्नश्च । एषा संस्कृतीकरणरीतिः व्यक्तिनाम्नामान्ध्रदेशे प्राचर्येण वर्तते। पदमञ्जरीरचनाकाल एव केनचित् कारणेनं हरदत्त, द्रविडदेशं गत. स्यादिति प्रतिभाति; "लेट् शब्दस्तु वृत्तिकारदेशे जुगुप्सितः, यथा प्रत्र द्रविणदेशे निविशब्दः' इत्युक्त्या । यदि सः द्रविडदेशीय एवाभविष्यत् तदा "अत्र द्रविडदेशे" इत्यस्य स्थाने "अस्मद्देशे" इति वा "अस्मद्रविडदेशे" इति वा अवदिष्यत् । तस्य ग्रन्थान्तरेषु "तेमल्" इत्यादि द्राविडभाषापदानां
समावेशेनैतदनुमातुशक्यते यदेष आन्ध्रदेशे कूचिमच्यग्रहारे जातः, १५ पदमञ्जयुत्तरभागरचनाकाले द्रविडदेशं गतः, शेषजीवितं चोलदेशे
कावेरीतीरे प्रवचनादिकं कुर्वन् अयापयदिति । द्राविडपदसमावेशनमपि तथा कृतं यथा अद्रविडेन द्रविडदेशे प्रवचनसमये क्रियेत । "तत्र द्राविडाः कन्यामेषस्थे सवितर्यादित्यपूजामाचरन्ति भूमौ मण्डलमालिख्य, इत्यादीन्युदाहरणानि" (आप० धर्मसूत्रस्य उज्ज्वलावृत्तौ २ अ० ११ पट० १६ सू०) इत्यादिवचनानि द्रष्टव्यानि ।
अपि च शेषवंशीयानामपि आन्ध्रदेशीयत्वं प्रदर्शनीयमिति मन्ये । शेषवंशीया आन्ध्रभाषाकवयोप्यासन् ।
अत्र भवतामभिप्रायं ज्ञातुमुत्सहे । अवकाशानुसारेण प्रत्युत्तरेणानुगृह्णन्त्विति प्रार्थये । भवतामाशीर्बलेन वयमत्र कुशलिनः। तत्र भवतां २५ क्षेमलाभादिकं शुश्रूषे ।
विनीतः वेङ्कटाचार्यः
१३-२६३ प्रधोनिर्दिष्टे विषये तत्र भवतामभिप्रायः प्रार्थ्यते
३०
१. द्र० पद्रमञ्जरी ६।१।१९२ ॥