SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ (७१) अनेकार्थसंग्रहः सटील: गन्धोल्यां चाय विकटः कराले पृथुरम्पयोः । लोकदो जानतारण्ये मणिकारेथ वेरटः ॥१६०॥ मिश्रीकृते च नीचे - वेरटं बदरीफले । शैलाटो देवले शुक्लकाचे सिंहकिरातयोः ॥१६१।। विप्लवम् । वर्णाटश्चित्रकारिणि । गायने स्वीकृताजीवे-वर्णान् अटवि वर्णाटः । वाच्यलिङ्गः । चित्रकारी चित्रकरः । गायनो गाथकः । स्वीकृतः आजीवो जीविका यस्यासी स्त्रीकृताजीवः । त्रिष्वपि यथा-वर्णाटो भाटकाधीनः । वरटा हंसयोषिति । गन्धोल्यां च । वृणोति वरटा। "दिव्यवि" (उ० १४२) इति अट:। हंसयोषिति यथा-वरटेव वरारोहा सविलासमटाट्यते ॥१५९॥ गन्धोली तैलाद्याख्यः क्षुद्रजन्तुः । तत्र स्त्रीसः । अथ विकट: कराले पृथुरम्ययोः । विस्तृतो विकट: "कट:" ७/१/१२४ इति कटप्रत्ययः । विशेषेण कटति वा। वाच्यलिङ्गः । कराले यथा-मुखकन्दरान्तरगतोऽपि विकटदशनेन केशिना । पृथौ रम्ये च यथा-गन्तव्यं देवकुले द्रष्टव्या विकटकटितटा वेश्या । वेकटो जाततारुण्ये मणिकारे-बिङ्क्ते वेकटः "कपट" (उ० १४४) इति साधुः । जाततारुण्ये वाच्यलिङ्गः । द्वयोर्यथा-वेकटैर्घट्यते मणिः । अथ वेरट: । मिश्रीकृते च नीचे च रम् । अति वेरटः। पृषोदरादित्वात् । वाच्यलिङ्गः ॥१६०॥ वेरटं बदरीफले । बदरीफलं कुवलम् । शैलाटो देवले शुक्लकाचे सिंहकिरातयोः । शैलमटति शैलाट: । चतुर्यु अर्थेषु । देवलऋषिविशेषः। किरातो भिल्ल: । संसृष्टं तु सङ्गते स्याच्छुद्धे च वमनादिना । संसृज्यते स्म संसृष्टम् । वाच्यलिङ्गः। सङ्गते यथा-दत्ताः कर्णेन विषसंसृष्टमोदकाः ।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy