________________
द्वितीयः काण्डः
विषे वक्रे क्ष्वेडा सिंहनादवंशशलाकयोः ।
वेडं लोहितार्कफले घोषपुष्पे दुरासदे ॥१११॥ क्रोडः कोले शनौ कोडमके खण्डोऽद्ध ऐक्षवे । मणिदोषे च गण्डस्तु वीरे पिटकचिह्नयोः ॥११२॥ इडायाः अपत्यमिति शिवाद्यणि ऐण्डः लत्वे ऐलः इति ॥१०८॥ काण्डो नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे । सहः . श्लाघाम्बुषु स्तम्बे । कति काण्डम् “ कण्यणि" इति णित् डः ।
पुंक्लीवः दशस्वय॑षु । नाले यथा-सरसबिसिनीकाण्डसंजातशङ्का दिमातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति । अधमे शरे च यथाचण्डकाण्डाहतित्रस्तो भटकाण्डः पलायते । वर्गे यथा-क्षपातमस्काण्डमलीमनं : नमः । द्रुस्कन्धे यथा-आरभ्य काण्डात्तक मुच्छिनत्ति ।. अवसरे यथा-अकाण्डकोऽपि नो भर्तुरन्यासक्तेश्च - योषितः । सहाबलं तन यथा-काण्डेन कोदण्डमयं चकर्ष । रह इत्येके । श्लाघायां यथा-नृकाण्डैर्मण्डिता मही। मम्बुनि यथा-कार्ड जगाहे सगजप्रकाण्डम् स्तम्ने यथा-तदलं समित्काण्डखण्डनाय । दण्डलतयोरपि । क्रमेण यथा-द. काण्डकण्डूजुषः । क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डम् । क्रोडा केल्यामनादरे । क्रीडनं क्रीडा। केल्यां यथा स च क्रीडाचन्द्रो दशनकिरणा पूरिततनुः । अनादरे यथा-तस्य द्वयमपि व्रीडा क्रीडादलतदन्तिनः ॥ १०९ ॥ कुण्डी कमण्डलौ । कुण्डते कुण्डी अच् । कुणति वा “कुगुहनी” इति कित् डः “गौरादित्वात्" ङीः । यथा-कुण्डिकापुस्तिकाछत्रिकाभियुता ब्रह्मशान्तिः प्रभातेऽस्तु शान्तिदः । कुण्डो जाराजी वत्पतेः सुते । देवतीयाशये स्थाल्याम् । देवतोयाशये स्थाल्यां च त्रिलि..।