________________
(६०)
अनेकार्थसंग्रह-कोषः सटीकः
पटुनाप्यलम् । पटुस्तीक्ष्णपटोलयोः। स्फुटे रोगविहीने च छात्रायां चतुरेऽपि च । पटोल ओषधिमेदः । छत्रा शिलिन्ध्रः । अनयोः पुंसि । शेषेषु वाच्यलिङ्गः । तीक्ष्णे यथा-कः पटुमतिरपि वाङ्मयमनवयं गाहितुं समुत्सहते । स्फुटे यथा-पटुभिर्राप नोपसर्पति चटुभिरयं निष्प्रयोजनो लोकः । रोगविहीने यथा-आत्मसममेव मन्दाः पटुरपि पश्यन्ति नयनयोः पश्य । परिनीलपटलभाजो हरिभरुचिर्भाति हरिदश्वः । चतुरे यथा-स्वर्गद्वारकपाटपाटनपटु. र्धर्मो न चीर्णो मया ॥ ९२ ॥ पुष्टिः स्यात् पोषणे वृद्धौ । पोषणं पुष्टिः । पोषणे यथा-ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । वृद्धौ यथा-सस्यपुष्टिकरी वृष्टिः । फटा तु कैतवे फणे। स्फटति फटा "पृषोदरादित्वात्" (३।२।१५५) स लोपः । फणे स्त्रीपुंसः । तत्र यथा-फटाटोपो भयंकरः भटो धीरे म्लेच्छमेदेऽपि च । भटति मटा । धीरे यथा- असमसमरसंपलम्पटानां भटानाम् । भृष्टिस्तु मनने शूयवाधाम् । (प्र० शून्यवाट्या) भर्जनं भृज्यते वा भृष्टिः। भर्जने यथा-किमपि चणकभृष्टि घ्राणतुष्टि विधत्ते ॥ ९३ ॥
अथ. म्लिष्टं म्लानमस्पष्टभाषितम् । म्लेच्छति स्म म्लिष्टम् : "शुध" (४।४।७१) इति अस्पष्टार्थे साधुः । म्लाने उपचारात्। याच्यलिङ्गः । ग्लाने विच्छाये यथा म्लिष्टं चित्रममित्रवासभवने वक्ति त्वदीयं यशः । अस्पष्टभाषिते यथा-रोगावृत इव धनवान् , वक्ति म्लियं च वक्रं च । यष्टिर्भाग्यां मधुयष्टयां ध्वजदण्डेऽ' स्त्रहारयोः । इज्यते अनया यष्टिः । “ अनुमायजि " (उ० ६४६) इति तिः । स्त्रीपुंसः । भार्गी मधुकृष्टी च ओषधिमेद्रौ । ध्वजदण्डे यथा-स्वावासभागमुरगासनकेतुयष्ट्या । अत्रे यथामुष्टयाऽवष्टभ्य यष्टिं करितटविचटत्कर्पटः । हारे यथा-टि