________________
द्वितीयः काण्डः
कचा करेण्वां काचोऽक्षिरोगे शिक्ये मणौ मृदि । काञ्ची गुञ्जामेखलयोः पुर्यां कूर्ची विकत्थने ।।५५।।
मश्रुणि दम्भे भ्रमध्ये क्रौञ्चो द्वीपे खगे गिरौ । चर्चा स्याचर्ममुण्डायां चिन्तास्थासकयोरपि ॥५६॥ यथा-बकोटमस्त्वां लघुनि सरसि कापि शफरैस्तव न्याय्यावृत्तिः । चरौ यथा-दर्शनेन लघुना तथा तयोः प्रीतिमापुरुभयोस्तपस्विनः । हृते यथा-व्रज लघुगतिर्भूय एवोत्तरेण ॥ ५३ ॥ श्लाघोपास्तीच्छयोः स्तोत्रे । श्लाघतेऽनया श्लाघनं वा श्लाघा । उपास्तीच्छयोर्यथा-कर्तव्या सद्गणश्लाघा । स्तोत्रे यथा हेलोल्लङघितवाहिनीपतिरिति-श्लाघाचलत्कन्धरः ॥ अथ चान्ताः ॥ अचों पूजा प्रतिमाऽपि च । अर्चनम् अय॑तेऽसौ इति वा अर्चा । पूजायां यथा-आदायार्चामथ गणचमूसंहतः । प्रतिमायां यथा-आभ्यां लिङ्गेऽर्पितः शंभुरायां भवता पुनः । कचःशुष्कव्रणे केशे बन्धे पुत्रे च गोष्पतेः । कच्यते अनेन कचनं वा कचः । बाहुलकात् पुंनाम्नि घः। केशे यथा-कुर्चेकचाकर्षणं । बन्धे यथा-कृतकवचकचैस्तैः संयुगे सांयुगीनैः । गीष्पतेः पुत्रे यथा- आदरेण कचमाचकाङ्क्ष सः। हीवेरेऽपि । तत्र क्लीबे ॥ ५४ ॥ कचा करेण्वां करेणुहस्तिनी । काचोऽक्षिरोगे शिक्ये मणौ मृदि । कच्यते काचः । घञ् । अक्षिरोगे यथा-काचोऽप्यान्ध्यमुपेक्षयेत् । शिक्ये रज्जुयन्त्रे यथामादाय काचमथ पान्थजनः प्रतस्थे । मणौ यथा-हृद्योऽयमनयोयोगः काचकाञ्चनयोरिव । मृद्देदे घातुविशेषे यथाकाचः काचो मणिर्मणिः। काञ्ची गुआमेखलयोः पुर्याम् । कंच्यते दीप्यते काञ्चिः । “कमिवमि" इति णित् इः । नित्करणादनु