________________
द्वितीयः काण्डः .
तोकं संतानसुतयोकिः स्यात् काककोकयोः । यकुमृगे मुनौ नाकः स्वः खे नाकुस्तु पर्वते ॥१०॥ मुनिवल्मीकयोनिष्कः कर्षे हेमनि तत्पले । दीनारे साष्टसुवर्णशते वक्षोविभूषणे ॥ ११ ।। तत्र यथा-तत्रापि त्रिकाम्न ॥९॥ तोक संतानसुतयोः । तूर्यते पूर्यते तोक “ भीणशलि” ( उणादि० २१ ) इति कः । संतानः अपत्यमात्रं । सुतस्तनयः । संताने यथा-जीवत्तोका च जीवसूः । सुते यथा-व्याकरणे शकटस्य च तोकम् । द्विकः स्यात् काककोंकयोंः । द्वौ ककारौ नाम्नि अस्य द्विकः। काके यथाउपद्रवन्ति पिशुनो उद्वद्धानामिव द्विकाः । न्यकुमो मुनौ । न्यति न्यङ्कुः “नेरञ्चेः” ( उ० ७२४) इति उः न्यक्वादित्वात् कत्वं पुंसि । मुनिः ऋष्यशृङ्गाख्यः । द्वयोर्यथा-संचरन्त्या. श्रमे न्यङ्कोनिःशङ्क न्यङ्कवः सदा। नाकः खःखे। नास्ति अकं दुःखमत्र नाकः । नखादित्वान्नोऽन्न भवति । स्वः सर्गः खमाकाशम् पुंक्लीवः । स्वर्गे यथा-किमु कुवलयनेत्राः सन्ति नो नाकनार्यः । खे यथा-नाकमन्दाकिनीव सा। नाकुस्तु पर्वते ॥१०॥ मुनिवल्मीकयोः । नर्मात नाकुः “ नमे क् च " ( उ० ७२० ) इति उः पुंसि । वल्मीके यथा-पृदाकुर्नाकुमध्यगः । निष्कः० निःशेषेण काम्यते निष्कः " क्वचित् ” इति डः निषीदति वा “निष्क तुरुष्क" (उ० २६) इति साधुः । पुंक्लीबः । कर्पः पलचतुर्थांशः। तत्पलं हेमपलम् दीनारो रूपकभेदः । सहाष्टभिर्वर्तते “प्रमाणी संख्याडुः” (७३।१२८ ) इति डे साष्टमष्टोत्तरं हेम्नः षोडश माषकाः सुवर्ण तेषां सुवर्णशतम् । हेम्नि यथा-नार्यों निष्क