________________
द्वितीयः काण्ड:
सेनाग्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः । सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥ ५८० ॥
( ३३१)
विधति वेधाः । " अस्" ( उ०९५२) इति अस् । पुंसि । धाता विधाता तत्र यथा - सत्यं सुन्दरि वेधस्त्रिजगतीसारं त्वमेकाकृतिः । ज्ञो विद्वान् तत्र यथा - वराया वाचो यः प्रथित इह वेधाः कविवृषा । विष्णो यथा - शैषशय्यासुखासीनं वेधसं ददृशुः सुराः । शंसा वचसि वाञ्छायाम् । शंसनं शंसा । " शंसि प्रत्ययात् " ५ । ३ । १०५ । इति अः । वचसि उक्तौ यथा - अनन्तशक्तेस्तव देव सा स्यादशक्तिजानाम सहस्रशंसा । वाञ्छायां यथा-शंसा सहस्रसङ्कीर्णे महेश मम मानसे । शिरो मूर्द्धप्रधानयोः । सेनाऽग्रभागे । शीर्यते शृणोति वा शिरः । " मिथि रञ्जि" ( उ० ९७१ ) इति किदस् । क्लीबे । मूर्द्धनि यथा - बभार दुःखेन भृशानतं शिरः । प्रधाने यथाकारस्कर शिरोभूतशूतः पूतदिगम्बरः ।। ५७९ ।। सेनाया अग्रभागोऽग्रप्रदेशविशेषः । तत्र यथा - आक्रम्याजेरग्निमस्कन्धमुच्चोरास्थायाथोवीतशङ्कं शिरश्च । हेला लोलावर्त्मगत्वातिमर्त्यं द्यामारोहन मानभाजः सुखेन । श्रेयस्तु मङ्गले धर्मशस्तयोः । अतिशयेन प्रशस्यं श्रेयः । 'गुणाङ्गात्' | ७|३|९| इति ईयसौ । प्रशस्य श्रः । ७।४।३४ । इति श्रादेशः । शस्ते प्रशस्ते वाच्यलिङ्गः । अन्यत्र क्लीबे । मङ्गले यथा - श्रेयांसि वो दिशतु वृत्तमृगेन्द्रजाय: । धर्मे पुण्ये यथा-कथाऽपि खलु पापानामलमश्रेयसे यतः । शस्ते यथा - मन्यसेऽरिवधः श्रेयान् प्रीतये नाकिनामिति । सहो बले ज्योतिषि च । सहते सहः । " अस्” ( उ० ९५२ ) इति अस् । क्लीबे । बले यथा - कस्ते सहांसि