________________
अनेकार्थसंग्रहः सटोकः
स्वैरो मन्दे स्वतन्त्रे च, हरो रासभरुद्रयोः । वैश्वानरेऽप्यथ हरिर्दिवाकरसमीरयोः ।।४५९।। यमवाससिंहांशुशशाङ्ककपिवाजिषु ।।
पिङ्गवणे हरिद्वर्णे भेकोपेन्द्र शुकाहिषु ।।४६०।। स्वतन्त्रे च। स्वईरोऽस्य स्वरः। स्वैरस्वैर्यक्षौहिण्याम । १।२।१५। इति ऐत्वम् । वाच्यलिङ्गः । द्वयोर्यथा-स्वैरं समाचकृषिरे भूवि वेल्लनाय । हरो रासभरुद्रयोः । वैश्वानरेऽपि । हरति हरः । रुद्रे यथा-हरस्तु किञ्चित्परिवृत्तधैर्यः । शेषयोर्यथा-भस्मभिः कश्मलो हरः । अथ हरिदिवाकरसमीरयोः। यमवासवसिंहांशुशशाङ्ककपिवाजिषु । पिङ्गवणे हरिद्वर्णे भेकोरेन्द्रशुकाहिषु । लोकान्तरे च। हरति हरिः। स्वरेभ्य इ: (उ० ६०६) षोडशस्वर्थेषु । पिङ्गवर्णहरिद्वर्णयोः गुणयोः पुंसि । तद्वति वाच्यलिङ्गः । सर्वेषु यथा-यस्य व्याहरतो हरि शुकमपि स्वस्वाभिधानभ्रमाबन्द्रेन्द्रानिलपन्नगार्यमयमैराज्ञाविधौ स्पर्धितम् । हर्यक्षस्य हरीशितुर्हरिगते हर्य्यङ्गहर्या कृतेः साहाय्याद्धरिमान् हरिहरिमिवास्थत्तं हरौ रावणम् । अस्य व्याख्या । यस्य रावणस्य कोरं प्रति हरिमिति जल्पतश्चन्द्रादिभिः स्वनामभ्रमादादेशविचौ ममाज्ञा दीयतां ममाज्ञा दीयतामिति अहमहमिका व्यधायि । तं लकेशं हरिमिव भेकमिव हरौ लोकान्तरे हरि रूपेन्द्रो राम नामा हरिमान् अंशुमान आस्थत् अक्षिपत् । हरीशितुः कपोश्वरस्य सुग्रीवस्य हर्यक्षस्य हरि(द्वर्णलोचनस्य हरिगतेजिगणनस्य हैर्यङ्ग (हर्यङ्ग)हर्याकृतेः पिङ्गाङ्गसिंहाकारस्य सहायकादित्यर्थः ॥४५९-६०॥ हारस्तु मुक्तादामनि संयुगे । हियते हारः। मुक्तादामनि स्त्रीपुंसः । तत्र यथा