________________
द्वितोयः काण्ड:
(२२३)
उग्रः क्षत्रियतः शूद्रा सूनावुत्कटरुद्रयोः । उग्रावचाछिक्किकयोरुना गवोपचित्रयोः ॥३८६॥ उस्रो मयूखे स्यादुष्ट्री मृद्भाण्डे करभस्त्रियाम् । ऐन्द्रिरिन्द्र सुते काकेऽण्योड्रा जनपदान्तरे ।।३८७।।
माप्सराः पूर्वं समुद्रादुद्गताभवत् । इन्द्रः शक्रेऽन्तरात्मनि । आदित्ये योगभेदे च । इन्दति इन्द्रः। भी वृधि (उ० ३८७) इति रः। शके यथा-तदिन्द्रसन्दिष्टमुपेन्द्रयद्वचः । अन्तरात्मनि यथा-इति हृतपरमार्थंरिन्द्रियैर्धम्यमाणः स्वहितकरणधूतैः पञ्चभिर्वञ्चितोसि । अत्र हि इन्द्रस्य आत्मनश्चिन्हमित्यादिव्युत्पत्तौ इन्द्रियमिति साधुः। आदित्ये यथा-इन्द्रेण द्राविते ध्वान्ते । योगभेदे यथा-ब्रह्मा ऐन्द्रोऽथ वैधृतिः। अत्र हि इन्द्र एव ऐन्द्रः। स्यादिन्द्रा तु फणिज्जके । फणिज्जको मरुबकः । तत्र स्त्रीलिङ्गः ॥३८५।। उग्रः क्षत्रियतः शूद्रासूनावुत्कटरुद्रयोः । उच्यते उषति वा उग्रः । खुर क्षुर (उ० ३९६) इति साधुः। उत्कटे वाच्यलिङ्गः। क्षत्रियतः शूद्रासूनाविति यः क्षत्रियेण शूद्रायां जन्यते । उत्कटे यथा - उग्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् । रुद्रे यथा-चैतन्यमुग्रादिवदीक्षितेन। उग्रावचाछिकिकयोः। द्वेऽपि ओषधी । उस्रा गवो (गव्यो) पचित्रयोः। वसत्युस्रा। ऋज्यजितजि (उ० ३८८) इति कित् रः। बाहुलकात्षत्वाभावः। गौरनड्वाही । तत्र यथा-उस्रावा यदि वा मेषश्छागो वा यदि वा वशा। गवि पुंस्यपि मंखः । यदाह अस्रोंऽशौगविद्वयोः। उपचित्रा ओषधीभेदः ॥३८६॥ उस्रो मयूखे स्यात् । यथा-शरैरुपैरिवोदीच्यानुद्धरिष्यन् रसानिव । उष्ट्री मृद्भाण्डे करभस्त्रियाम् । उष्यते उषति वा उष्ट्रो । सूमूखन्युषिभ्यः कित्