________________
द्वितीयः काण्डः __ (२०९) पद्योऽन्त्यवर्णे स्यात्पद्यं लोके पद्या तु वर्त्मनि । प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः ॥३६१॥ प्रियो वृद्धयौषधे हृद्ये, पत्यौ पुण्यां तु सुन्दरे । सुकृते पावने धर्मे, पूज्यः श्वसुरवन्द्ययोः ।।३६२।।
स्यान्नैगमादिषु । नीतिद्यूतभिदोः । नीयतेऽनेन नयनं वा नयः । नगमादयो नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढवंभूतलक्षणाः सप्त । तत्र यथा-नयास्तव स्यात्पदलाञ्छना इमे। नीतौ यथा-दुरोदरच्छद्रजितां समीहते नयेन जेतुं जगतीं सुयोधनः । द्यूतभेदे गमरूपे यथा-छूतेन यज्ञः कितवो विजिग्ये । पथ्यं हितम् । पथोऽनपेतं पथ्यम् । हृद्य पद्य ७।१।११ । इति साधुः। वाच्यलिङ्गः। यथा-उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । ओषधभेदेऽपि यथा-पथ्यं ग्लाने मरिष्यत्यपि विपुल कृपः किं भिषक् रोरुधीति । पथ्या हरीतकी । पथ्यैव पथ्यमवधौ विधेयम् । आर्याभेदेऽपि यथा-आद्येषु त्रिषु पादो भवति भवति तु पथ्या । पद्योऽन्त्यवर्णे स्यात् । पादे भवः पद्यः । दिगादि ६।३।१२४ । इति यः हिमहति २।३।९६ इति पदादेशः। अन्त्यो वर्णः शूद्रः। तत्र यथा-मद्यं न पद्यैरपि फेयमद्य । पद्यं श्लोके । श्लोको वृत्तबन्धः। तत्र यथा-गद्यपद्यमयी सापि चम्पूरित्यभिधीयते । पद्या तु वर्त्मनि । पादेभ्यो हिना पद्या । प्राण्यङ्गरथखल ७।१।३७ । इति यः । पद्यां व्यधित वर्द्धकिः। प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः । प्रेयन्ते प्रेयते प्रायः । वयसि यथा-कुमारप्रायोऽयं नृपतिरिति मंस्थाः स्वहृदि मा। अनशने मृतौ च यथा-प्रायोपवेशनमतिर्नु पतिर्बभूव । बाहुल्ये यथा-गतप्रायारात्रिः कृशतनुशशी शीर्यत इव । तुल्ये वाच्यलिङ्गः