________________
द्वितीयः काण्डः
(२०७)
दायो दाने यौतकादिधने सोल्लुण्ठभाषणे । विभक्तव्ये पितद्रव्ये, दिव्यं वल्गुलवङ्गयोः ॥३५७॥ धुभवे दिव्यामलक्यां, दृष्यं वाससि तद्गृहे ।
दूषणीये चाथ दैत्योऽसुरे दैत्या मुरौषधौ* ॥३५८।। पातविषयादाच्छिन्दतः प्रेयसी ॥३५६।। दायो दाने यौतकादिधने सोल्लुण्ठभाषणे । विभक्तव्ये पितृद्रव्ये । दीयते दायः । चतुर्वर्थेषु । दाने यथा-रहसि रमते प्रीत्या, दायं ददात्यनुवर्तते । यौतकं मुवतयोर्वघूवरयोर्देयं तदादि धने यथा-प्रकृतौ या न वर्तेत न सा स्त्रीदायमर्हति । सोल्लुण्ठभाषणे यथा-विधा विधाय दायं दयितां मुमोच । विभक्तव्ये पितृद्रव्ये यथा-स्थितः प्रास्तस्य दायादैर्घातुर्येष्ठस्य शासने । धनमात्रेऽपि । तत्र पुंक्लीबः । दिव्यं वल्गुलवङ्गयोः धुभवे । दिविभवं दिव्यम् । धुप्रागपाग । ६-३-८ । इति यः वल्गुनिधुभवे च वाच्यलिङ्गः। तयोर्यथा-दिव्यस्त्रीणां विलसनभुवं पर्वतं पारियात्रम् । लवङ्गं देवकुसुमम् ॥३५७।। दिव्यामलक्याम् । आमलकी धात्रीतरुः । तत्र स्त्रियाम् । दूष्यं वाससि तद्गृहे । दूषणीये च। दुष्यते दुष्यम् । षणीये वाच्यलिङ्गः । वाससि यया-देवष्यं देवराजः स्कन्धदेशे न्यधात्प्रभोः। तस्य वाससो गृहं तद्गृहम् । तत्र यथा-दष्यैरिव क्षितिभृतां द्विरदैरुदारतारावली विरचनैर्व्यरुचनिवासाः । षणीये यथा-किमदूष्यं दुरात्मनाम् । इभमध्यबन्धव्यां रज्ज्वामपि मंखः । यथा-दूष्योपोद्वलितक्रमा अपि महावंशाश्रिताः सिन्धुराः। दैत्योऽसुरे। दिवेरपत्यं दैत्यः । अनि दमि । ६-१-१५। इति ज्यः। यथा-इतः स दैत्यः
*प्र० सुरौषधौ