________________
द्वितीयः काण्डः
o
(२०५)
*त्रयीत्रिवेद्यां त्रितये, पुरन्ध्यां सुमतावपि । ताय॑स्तु स्यन्दने वाहे, गरुडे गरुडाग्रजे ॥३५४।। अश्वकर्णाह्वयतरौ स्यात्तानं तु रसाञ्जने । तिष्यः पुष्यवत्कलौ भे, तिष्या त्वामलकीतरौ ॥३५५।।
वाच्यलिङ्गः। तत्र यथा - शुश्राव घोषं न जनौघजन्यम् । नवोढोनुचरादिके यथा-यातेति जन्यानवदत्कुमारी । जन्यं कोलीने युध्य? । जनस्य जल्पो जन्यम् । हृद्यपद्य ७-१-११। इति साधुः । कौलीने जनवादे पुंक्लीबः । तत्र यथा-तत्वोपलम्भेन विना न जन्यमात्रेण दुष्यं क्वचिदेव वस्तु। युधि यथातत्र जन्यं रघो?रं पार्वतीयैर्गणैरभूत् । अट्टै हट्टे यथा-जन्येषु धन्या धनमर्जयन्ति । जन्या मातृसखीमुदोः। मातृसखी मातुर्वयस्या। मुद् हर्षः । द्वयोर्यथा-जन्या जयति जन्याम् ॥३५३॥ अयी त्रिवेद्यां त्रितये पुरन्ध्यां सुमतावपि । त्रयोऽवयवा यस्याः त्रयी। द्वित्रिभ्यामयड् वा । ७-१-१५२ । इति अयट् । त्रिवेद्यां वेदत्रये यथा-एतत्त्रयीमयं ज्योतिरादित्यारव्यं निमज्जति । त्रितये स्त्रीवलीबः । तत्र यथा-व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी। पुरन्ध्री स्त्री। शोभनामतिः सुमतिः। तार्यस्तु स्यन्दने वाहे गरुडे गरुडाग्रजे । अश्वकर्णाह्वयतरौ (प्र० अश्वकर्णाह्वयतेतरौ)। तृश् गतौ तृक्षति तायः । शिक्यास्या (उ०३६४) इति साधुः । तृक्षस्यापत्यं वा। गर्गादेर्यन । ६-१-४२ । स्यन्दने वाहे गझडे च यथा-स्वक्षं सुपत्रं कनकोज्ज्वलद्युति जवेन नागाजितवन्तमुच्चकैः। आरुह्य ताय नभसीव भूतले ययावनुद्घातसुखेन सोऽध्वना । गरुडाग्रजेऽरुणे यथा-तार्योदये
*मु,म० स्याज्जन्युर्जन्तुमागे च पावके परमेष्ठिनि । त्रयी....