________________
द्वितीयः काण्डः
ब्राह्मण्यां क्षत्रियाज्जाते तक्षिण सृतिर्गतौ पथि । स्मृतिः स्मरणधीच्छासु शास्त्र सेतुस्तु संवरे ॥२०६॥ नदीसंक्रमेऽथ हस्तः करे मानोडुभेदयोः। केशात्कलापे शुण्डायां हरिदिशि तृणान्तरे ॥२०७॥ द्वयोर्यथा-सुप्तौ हिं जानन्ति जना न किंचित् । सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु । ब्राह्मण्यां क्षत्रियाजाते तक्षिण । सूते सुयति सूयते स्म वा सूतः । प्रसतेरितयोर्वाच्यलिङ्गः । पारदे यथा-सूतेन सह संमद्य नागवल्लीदलद्रवम् । सारथौ यथा-सूर्यसूतोऽवताद्वः। प्रसूते यथा-सूते सुते संततिवल्लिकन्दे । ईरिते यथा-शृङ्गेण सूतैः सलिलैः प्रभूतैः । बन्दिनि यथासूतात्मजाः प्रवयसः प्रथितप्रबोधम् ॥ २०५ ॥ ब्राह्मण्यां क्षत्रियाजाने यथा-न सूताः सोमपायिनः । तक्षा रथकारस्तत्र यथासूतो वा सूतपूत्रो वा । सृतितौ पथि । सरणं सरत्यनया वा सृतिः स्त्रियाम् । द्वयार्थथा-दुर्लभा विपिने मृतिः । स्मृतिः स्मरणधीच्छासु , शास्त्र । स्मरणं स्मयतेऽनया: वा स्मृतिः । चतुर्वर्थेषु स्त्रियाम् । स्मरणं पूर्वानुभूतस्य धीः तात्कालिकी बुद्धिः । तयोर्यथा - कोसौ कास्मि. रतं तु किं कमिति स्वस्यापि मे न स्मृतिः । इच्छायां यथा-स्मृतिभुवः पथिका-हरिणा इव । शास्त्र यथा-श्रुतेरिया) स्मृतिरन्वगच्छतः सेतुस्तु संवरे नदीसंक्रमे । सिनोति सेतुः " कृमिकमि” इति तुन् । सि । संघरो जलधारणायपालिः । तत्र यथा-नलिनी-तसेतुमायनों अलसंघात इवातिविद्वतः ॥ २०६ ॥ संक्रामन्ति अमेन समे नद्या नद्यां वा संक्रमः । नदी इत्युपलक्षणे तेन समुद्रादावपि । प्रत यथा-सेतुबद्धमिमं शृणोमि कपिभिः पश्यामि लङ्का वृताम् ।
'.
.
.
.
.
.
.
...
.