________________
द्वितीयः काण्डः
(१२१)
श्वेत रूप्ये श्वेतो द्वीपे वर्णे शैले कपर्दके । श्वेतातुशजिनीकाष्ठपाटल्योः स्यात् सती पुनः॥२०२॥ कात्यायन्यां च साध्व्यांच, सातिर्दानावसानयोः । सितस्त्ववसिते बद्ध वर्णे सिता तु सर्करा ॥२०३॥ श्रूयतेऽसौ अनया था श्रवणं वा श्रुतिः स्त्रियाम् । आम्नायो वेदस्तत्र यथा-श्रुतेरिवार्थ स्मृतिरन्वगच्छत् । वार्तायां यथा-सखि दशमुखा निन्ये सीतामितीह जनश्रुतिः। षड्जादीनां स्वराणाम् भारम्भिकायां यथा-श्रुतिसमधिकमूच्चैः पञ्चमं पीडयन्तः । कर्णे यथा-श्रुतिपथमधुराणि सारसानाम् । आकर्णने यथा-नामश्रुतावपि भवेत सखि महर्षः । श्वेतं रूप्ये । श्वेतते श्वेतम् यथाश्वेतप्राप्त्या रसोकात् । श्वेतो द्वीपे वर्णे शैले कपर्दके । वर्षे पुंसि तद्वति तु वाच्यलिङ्गः । द्वीपे यथा-वेतद्वीपलक्ष्मीमिधान्य द्वीपात्तरावलंकनकुतूहलागताम् । वर्षे यथा-श्वेतातपत्रोज्ज्वला लक्ष्मीः । शैले यथा-तेन श्वेतसमेतेन मुनिना तप्यते तपः । कपर्दके यथा-श्वेतैः श्वेतं जलधिपुलिनं गाहते पोतवाहः । श्वेता तु शजिनीकाष्ठपाटल्योः स्यात् । शङ्खिनी शङ्खपुष्पी । काष्ठपाटली पाटलीभेदः । सती पुनः । कात्यायन्यां च साध्व्यां च । अस्तीति सती “अधातूददितः " इति डोः ॥ २०२ ॥ कात्यायनी गौरी साधी पतिव्रतो । द्वयोर्यथा-सती सती योगविसृष्टदेहा। सातिर्दानावसानयोः। सननं सातिः। “आः खनि सनि" इति आत्वम् स्यते "साति हेति" इति निपातनं स्त्रियाम् । सितस्त्ववसिते बद्ध वणे । सीयते स्म सितः । वर्णे पुंसि । तद्वति शेषयांश्च वाच्यलिङ्गः । अवसिते अवसान प्राप्ते यथा-दिनमवसित विश्रान्ताः सः । अत्र अवेन सितशवस्यैव