________________
द्वितीयः काण्डः
(९७)
रम्ये यथा-कोपेऽपि कान्तं मुखम् । प्रिये भर्तरि यथा-कान्ते तल्पगमुपागते विगलिता नीवी स्वयं बन्धनात् । ग्राष्णिउपले यथा-व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः। कान्ता प्रियङ्गयोषितोः। प्रियङ्गः फलिनी । योषिति यथा-कान्ताकटाक्षविशिखा न खनन्ति यस्य । कान्तिः शोभाकामनयोः । कमनं कान्तिः स्त्रियाम् । शोभायां यथा-कान्तिं कामिव कुर्वीत कुणौ कङ्कणकल्पना । कामना इच्छा तस्यां यथा-भवति भवकानि : स्वातमध्येन कस्य। प्रभाकायगुणयोरपि । प्रभायां यथा-लावर कान्तिपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरला. यताक्षि । कायगुणे यथा-ओजः प्रसादश्लेषसमतासमाधिमाधुर्य सौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणाः । क्षितिगेंहे भुवि क्षये। क्षयन्ति अत्र क्षयणं क्षणनं वा क्षितिः । त्रिष्वपि यथा-तैः समलंकृतं निजकुलं तैरेव लब्धा क्षितिः ॥ १६० ॥ कीर्तिर्यशसि विस्तारे प्रसादे कर्दमेऽपि च । कीयते अनया कीर्तनं वा कीर्तिः। “सातिहेति" इति साधुः। यशसि यथा-त्वत्कोत्तिभ्रमति क्षितीश्वरमणेः पारे पयोधेरपि। कृतं पर्याप्तयुगयोविहिते हिंसिते फले । डुकंग करणे, ऊंग् हिंसायां वा क्रियते स्म कृतम् विहितहिसितयोयिलिंग :। पर्याप्तयुगयोर्यथा-कृत कृतयुगादिभिः विहिते यथा-कृतं वीतत्री.नि जगुणकथापातकमपि । फले यथा-सुकृतशतविलासः सोयमेकान्तवासः । अत्र हि शोमनं कृतं फलं यस्मात् सुकृतं पुण्यमुच्यते ॥ १६१ ॥ कृत्तं छिन्ने वेष्टिते च । कृतैत् छेदने कृतैए वेष्टने वा । कृत्यते स्म कृतं वायलिंगः । छिन्ने यथा-केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी। वेष्टिते यथा-कृत्ताजिनो नृत्यति चन्द्रमौलिः । केतुर्युतिपताकयोः । ग्रहोत्पातारिचिह्नेषु । चाय्यते केतुः "चायः को वा” इति तुन् । षट्खपि पुसि। द्युतौ यथास्वेदोद्गमे हेतुरिहोष्णकेतुः । पताकायां यथा-स्वावासभागसुरगासम
.
.
..