________________
३६
अध्यात्मोपनिषत्प्रकरणम् बुद्धिरचिरमेव सम्पद्यते इति तत्तदवस्थोचितसुखानुभवतश्चिरेण विषयोपभोगजसुखानुभवानन्तरं ज्ञानसुखसम्पत्तिस्तुरीयावस्थायां, न तु प्रथमत एवेत्याशङ्काशङ्कन्मूलनायाऽऽह -
सत्तत्त्वचिन्तया यस्या-ऽभिसमन्वागता इमे ।
आत्मवान् ज्ञानवान् वेद-धर्मवान् ब्रह्मवाँश्च सः ॥२.८॥ विषयाणामानन्त्यात् प्रत्येकं सर्वविषयोपभोगोऽसम्भवग्रस्त एवेत्याशङ्कोपदर्शिता प्रक्रिया न सम्भवत्येव । किन्तु सत्तत्त्वचिन्तयेति । सतो यत् तत्त्वमुत्पादव्ययध्रौव्यलक्षणं, तस्य या चिन्ता- नयभेदव्यपेक्षा विचारणा, 'एतदपेक्षयोत्पाद, एतदपेक्षया व्यय, एतदपेक्षया ध्रौव्यमेतदपेक्षया सत्त्वमेतदपेक्षयाऽसत्त्वमेवमेतदपेक्षया नित्यत्वमेतदपेक्षयाऽनित्यत्वमेतदपेक्षयैकत्वमेतदपेक्षयाऽनेकत्व'मित्यादिका सर्वाऽपि विचारणा सतत्त्वचिन्तापदेन ज्ञेया, तयेत्यर्थः ।
यस्य- ज्ञानिन, इमे- परिदृश्यमानाः सर्वेऽपि विषया, अभिसमन्वागता- अभितः- सर्वप्रकारेण, समिति समीचीनतया, अनु- स्वपृष्ठलग्नतयाऽवश्यम्भावेन, आगता- ज्ञानविषयभावमानीताः । तथाच क्षयोपशमविशेषेण यथावस्थितसर्वविषयविषयकज्ञानवानित्यर्थः । एवं च यत् सुखं यादृशं तत्सुखंस्य तादृशतया ज्ञानं तस्याऽपि सम्पन्नमिति तदपेक्षयोत्कृष्टत्वबुद्धिर्ज्ञानात्मनि सुखे भावनाप्रकर्षणाऽस्थविरस्याऽपि सम्भवत्येवेत्याशयः ।
एवम्भूतं पुरुषमन्यतः प्रकृष्टतया भावयति - आत्मवानिति । आविर्भूतात्मतादात्म्यवानित्यर्थः । तेन स्वस्य स्वापेक्षयाऽऽधाराधेयभावेऽपि न क्षतिः । एतेन यस्य न ज्ञानरतिस्तस्याऽऽत्मवत्त्वे सत्यपि अनात्मन्येव पुत्रकलत्रधनदेहादावात्मत्वाध्यवसायान्न यथार्थमात्मत्वग्रहोऽनात्मवानेव स इत्युपदर्शितम् । अथवाऽऽत्मपदेन पुरुषकार एव मुक्तिविषयोऽभिमतः । उक्तज्ञानसम्पन्न एव मुक्तौ सफलपुरुषकारव्यापारः सम्पद्यते इत्याशयः । ज्ञानवानिति । यद्यप्युपयोगलक्षणो जीव इति जीवस्वाभाव्यात् पुरुषभावे एव ज्ञानवत्त्वम् । तथापि ज्ञानपदेन विशिष्टं ज्ञानमत्राऽभिप्रेतम् । दृश्यते च ज्ञानित्वाविशेषेऽपि 'अयं ज्ञानी, अयं चाऽज्ञानी'ति विविक्तो व्यवहारो लोके । वेदधर्मवानिति । वेदपदमागमपरम् । आगमविहितधर्माचरणसम्पन्न इति । उक्तज्ञानविकलस्य तु श्रुतविहिताचरणेऽपि न तथाभाव इति ज्ञानी स्तूयते । ब्रह्मवानिति । ब्रह्म- ब्रह्मचर्यं मैथुननिवृत्तिः । तेन च कदापि रेतःस्खलनाभावेनोवरेतस्कत्वमुपलक्ष्यते । ऊर्ध्वरेता अवश्यमेव ज्ञानी भवति "ऊर्ध्वरेता भवेत् प्राज्ञ" इति लोकप्रसिद्धः ॥२.८॥
ज्ञानयोगसम्पादनार्थं पूर्वं विषयाः परित्यक्तव्याः । सम्पन्ने च ज्ञानयोगे विषयेषु माध्यस्थ्यमेवाऽवलम्बेत तत्स्वरूपाभिज्ञः सन्नित्याह -
विषयान् साधकः पूर्व-मनिष्ट त्वधिया त्यजेत् । न त्यजेन्न च गृह्णीयात्, सिद्धो विन्द्यात् स तत्त्वतः ॥२.९।।
१. वृत्त्यन्तरे 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति न्यायमाश्रित्य "वेदवान्- आगमवान्, धर्मवान्अपवर्गाभ्युदयमार्गवा"नित्यर्थो दर्शितः । सोऽपि कथञ्चित्सङ्गत एव ।