________________
शास्त्रयोगशुद्धिनामाऽधिकारः समीचीनविचारप्रकारस्य सङ्ग्रहादिनयान्यतम एवाऽन्तर्भावात् । तद्व्युत्क्रान्तस्वतन्त्रविचारपरिशीलनैकशेमुषीणां तु विचाराः सद्युक्तिमार्गबहिर्भूता न स्थेमानमास्तिघ्नुत इति तद्विचारभाजो दुर्नयैकतानहृदया न वस्तुतो लौकिका नाऽपि परीक्षका इति न तेषामध्यात्मचिन्तायामधिकार इति. तत्परिशीलिता रूढिर्नाऽत्रोपयोगिनीति वस्तुस्थितौ; शुद्धसङ्ग्रहे सत्त्वेन महासामान्येनाऽशेषस्य जगत ऐक्यमेव प्रधानतयोररीकुर्वति बाह्याध्यात्मविभागे गजनिमीलिकामातन्वति, अध्यात्मपदरूढ्यर्थघटना न वस्तुतः समञ्जसा । अशुद्धसङ्ग्रहे तु यन्नयविषयावलम्बनेनाऽशुद्धता तन्नयत एव तथाविभागादध्यात्मप्ररूपणा कृतार्थेति न तत्र स्वातन्त्र्यमस्य । नैगमस्तु सामान्यात्मकविषये सङ्ग्रहमुखं विशेषात्मकविषये च व्यवहारमुखमवलोकयन् ताभ्यामेव स्वस्वरूपसिद्धिमातन्वानो नाऽस्मिन्नर्थे तथा प्रागल्भ्यमञ्चति । व्यवहारस्तु विभजनपरो भवत्यत्र कुशलः । तथा ऋजुसूत्रोऽपि क्षणिकतया बाह्याभ्यन्तरभेदभिन्नं जगदेवाऽभ्युपगच्छनध्यात्मपदरूढ्यर्थप्रतिपादने कुशल इति व्यवहारर्जुसूत्रनयाभिज्ञा एवाऽत्र रूढ्यर्थनिपुणा ज्ञेयाः ।।
शब्दनयस्तु साम्प्रताभिधानो वचनलिङ्गकालपुरुषादिभेदेनाऽर्थभेदमभ्युपगच्छन्नप्यन्यत्र विषये ऋजुसूत्रविचारसमानविचारक एव प्रायः । समभिरूढस्तु व्युत्पत्तिबलेनाऽर्थं शब्दस्योपगच्छन्नप्यत्र विषये एवम्भूतनयादपकृष्ट एव । एवम्भूतनयेन च योगार्थमवलम्ब्याऽध्यात्मस्वरूपं प्ररूपितमेवेति ।
बाह्यव्यवहारोपबृंहितं मैत्र्यादिवासितं चिंत्तमध्यात्ममेवं निर्मलं चित्तमध्यात्ममिति योगः । तत्र पूर्वमध्यात्म व्यवहारनयमतेन, द्वितीयमृजुसूत्रनयेन । बाह्यव्यवहारोपबंहितं बाह्यव्यवहारपरिपुष्टं, न तु बाह्यव्यवहारापहारकृत् । एतेन - 'आत्मैवेदं सर्व'मित्यादिवादाश्रयणेन ब्रह्माद्वैतादेरध्यात्मस्वरूपत्वेऽभ्युपगम्यमाने तत्त्वतो बाह्यव्यवहारोच्छेद एव कृतो भवतीत्यावेदितं भवति ।
यथास्थितासत्तिसमाश्रयणेन मैत्र्यादिवासितं चित्तमध्यात्म, बाह्यव्यवहारोपबृंहितं चित्तमध्यात्ममित्येवं निरुच्यमाने व्यवहारनयाभिमतस्याऽध्यात्मस्य बाह्यव्यवहारपराङ्मुखत्वम्, ऋजुसूत्रनयाभिमतस्य तस्य वा बाह्यव्यवहारसमनुगतत्वमावेदितं स्यात् । न चैतद् युक्तम् । यतो यद् बाह्यव्यवहारपराङ्मुखं तद् व्यवहारनयाभिप्रेतमेव न भवति, तस्य व्यवहारैकप्राणत्वात् । यच्च बाह्यव्यवहारोपबृंहितं तद् ऋजुसूत्रसम्मतमेव न भवति, तस्य बाह्यप्रथोच्छेदैकप्राणत्वात् । यतः तन्मतावलम्बिनां -
"चित्तमेव हि संसारो, रागादिक्लेशवासितम् ।
तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते ॥" इति वचनमुज्जृम्भते । एतद्वचनेन चित्तस्यैव क्लिष्टत्वेन संसारत्वमक्लिष्टत्वेन भवान्तत्वं- संसाराभावत्वं मुक्तित्वमिति यावदिति प्रतिपाद्यते । तदेतद् बाह्यपदार्थसत्ताधीनसत्ताके बाह्यव्यवहारे जागर्ति सति कथं घटेत ? यत एव यथास्थितासत्तिसमाश्रयणं नाऽभिप्रेतं ग्रन्थकृतः, अत एवाऽग्रे यथाक्रममित्यनुक्त्वा यथायथमित्युक्तम् ।
१. "रूढ्यर्थः" इति श्लोकस्थपदावल्यपेक्षयेदं कथनम् । पूर्वपरिच्छेदे टीकाकृता यथास्थितासत्तिमसमाश्रित्य. नयद्वयेनाऽर्थसङ्गतिर्दर्शिता । किमर्थमेवं विहितमित्यस्य कारणचर्चेषा ।