________________
महोपाध्याय-श्रीयशोविजयगणि-प्रणीतम् अध्यात्मोपनिषत्प्रकरणम्
शास्त्रयोगशुद्धिनामाऽधिकारः
ऐन्द्रवृन्दनतं नत्वा, वीनरागं स्वयम्भुवम् । अध्यात्मोपनिषन्नामा, ग्रन्थोऽस्माभिर्विधीयते ॥१.१॥ आत्मानमधिकृत्य स्याद्, यः पञ्चाचारचारिमा । शब्दयोगार्थनिपुणा-स्तदध्यात्म प्रचक्षते ॥१.२॥
शासनसम्राट्-श्रीविजयनेमिसूरि-विरचिता वृत्तिः श्रेय:श्रियं नो दिशताज्जिनेन्द्रः, सम्यक्क्रियाज्ञानविधानदक्षः ।
अध्यात्मसद्योगपथप्रदर्शी, तदीयसद्वृत्तिविधिप्रवृत्तौ ॥ । आत्मानमधिकृत्य यद् भवति यत् तिष्ठति यज्ज्ञायते यच्चाऽऽत्मानमेव व्याप्नोति तस्य सर्वस्याऽप्यध्यात्मपदावयवशक्तिग्रहजन्योपस्थितिविषयत्वेनाऽध्यात्मत्वप्राप्तौ कथं पञ्चाचारचारिमैवाऽध्यात्ममिति शङ्काशङ्घन्मूलनायोक्तं शब्दयोगार्थनिपुणा इति । शक्नोतीति शक्रः, चेष्टते इति घटः, गच्छतीति गौरित्येवंदिशा निरुच्यमानस्य शक्रादिशब्दस्याऽवयवशक्तितः प्रतीतशक्रादिव्यक्तिभिन्नव्यक्तिष्वपि तत्तत्क्रिया योगत: प्रवृत्तौ सत्यां, य एवाऽर्थः सहस्राक्षप्रमुखो लोके शक्रादिसंज्ञया प्रतीतस्तस्यैवाऽर्थस्य योगतोऽप्यधिगतयेऽमरावती रक्षितुं शक्नोति, जलाहरणधारणाद्यर्थं चेष्टते इत्यादिरीत्या व्युत्पत्तिमाश्रित्य प्रति नियतार्थबोधकत्वं यथा शक्रादिशब्दानां; तथैव प्रकृतेऽन्यार्थप्रवृत्तेः सम्भवेऽपि तत्परिहारेण पञ्चाचारचारिमेति विशिष्य विशेष्योपादानतोऽध्यात्मपदं तत्रैव योजयितुं ये समर्थास्ते शब्दयोगार्थनिपुणा: पञ्चाचारचारिम स्वरूपमध्यात्म प्रचक्षत इति नाऽन्यत्र तच्छब्दप्रवृत्तिर्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तत्वेऽपीत्याशयः ॥१.२॥