________________
परिशिष्टम्-७. अध्यात्मोपनिषत्प्रकरणे सवृत्तौ विशिष्टा व्याख्याः अत्यन्तपक्वबोधः - हिताहितविचारप्रवणत्वेनोहापोहसमर्थत्वेन च कषच्छेदतापादिपरिकर्मिततया च
परिनिष्ठितो बोधः (२.४८ वृ०.) अध्यात्मभाजनत्वम् - नयाभासकृतभ्रान्तिराहित्ये सति विश्रान्तिसाम्मुख्ये सति स्याद्वादविशदालोकत्वम् (१.५) अध्यात्मम्
- आत्मानमधिकृत्य जायमानं पञ्चाचारपालनम् (१.२*) । मैत्र्यादिवासितं
बाह्यव्यवहारोपबृंहितं निर्मलं चित्तम् (१.३) अनालम्बनत्वम् - ध्येयस्वरूपव्यतिरिक्तध्यातृध्यानाविषयकत्वम् (२.१७ वृ.) अन्यसमयस्थितत्वम् - आत्मनः पर्यायेषु निरतत्वम् (२.२६) अर्धविज्ञत्वम् . - स्वमनोऽभिलषितमात्रस्य दुषत्वादुष्टत्वादिविमर्शनराहित्येनाऽवगमनम् (तन्नाम सम्पूर्णस्य
शास्त्रस्य यथावदनवगमनम्) (२.४८ वृ.) आनन्दत्वम् - परप्रेमानास्पदत्वाभावः (२.४४ वृ.) आवापः
- स्वधर्मस्य कल्पनारूपान्वयः (२.२७ वृ.) उत्तमं ज्ञानम् - - नैरन्तर्येण चिन्मात्रलक्षणेनाऽऽत्मनोऽन्यव्यतिरिक्तत्वबोधः उद्धापः । - अन्यधर्मप्रतिक्षेपरूपव्यतिरेकः (२.२७ वृ.) कषशुद्धिः - एकोद्देशेन प्रवृत्तानां विधीनां निषेधानां चोपवर्णनम् (१.१८) कषशुद्ध्यभावः - गौणीकृतमोक्ष-प्रधानीकृतार्थकामाधिकारत्वे सति काल्पनिककथोद्बोधप्रवणविधिनिषेध
गुम्फितत्वम् (१.२०) चित्त्वम् .
- अस्वप्रकाशत्वाभावः (२.४४ वृ.) चिन्ताज्ञानम् - जलतैलबिन्दुसदृशं सूक्ष्मयुक्तिशतान्वितं महावाक्यार्थजं ज्ञानम् (१.६६) छेदशुद्धिः - विधिनिषेधानां योगक्षेमयोः सम्पादिकायाः क्रियाया वर्णनम् (१.२१) छेदशध्यभावः .. - अन्यार्थकस्य सामान्यशास्त्रविषयस्याऽन्यार्थकेन विशेषशास्त्रविषयेन कृतेन प्रच्यावनेन
युक्तत्वम् (१.२३) ज्ञानम्
• - वस्तुप्रकाशनसामोपेतमात्मरूपम् (२.११) ज्ञानयोगः
- योगजादृष्टजनितः प्रातिभज्ञानसञ्जितः केवल-श्रुतयोः पृथग् ज्ञानविशेषः (२.२) तापशुद्धिः - सर्वनयालम्बिविचारैस्तात्पर्यापरिशुद्ध्यभावः (१.२९) दमः
- - बाह्येन्द्रियनिग्रहः (२.४९ वृ.) दुःखम्
- स्वरूपविश्रान्त्यभावलक्षणमात्मनोऽस्वस्थत्वम् (२.११ वृ.) / परवशं सर्वम् (२.१२) धर्मवादः
- माध्यस्थ्यपर्यवसितः शास्त्रार्थः (१.७१) * श्लोकक्रमाङ्कोऽयम् । • वृ. = वृत्तिः ।