________________
परिशिष्टम्
अल्पेऽपि साधुन कषायवहा-वह्नाय विश्वासमुपैति भीतः । प्रवर्धमानः स दहेद् गुणौधं, साम्याम्बुपूरैर्यदि नाऽपनीतः ॥ ४.११ ॥ प्रारब्धजा ज्ञानवतां कषाया, आभासिका इत्यभिमानमात्रम् । नाश्यो हि भावः प्रतिसङ्ख्यया यो, नाऽबोधवत् साम्यरतौ स तिष्ठेत् ॥ ४.१२ ॥ साम्यं विना यस्य तपःक्रियादे-निष्ठा प्रतिष्ठार्जनमात्र एव । स्वर्धेनु-चिन्तामणि-कामकुम्भान्, करोत्यसौ काणकपर्दमूल्यान् ॥ ४.१३ ॥ ज्ञानी क्रियावान् विरतस्तपस्वी, ध्यानी च मौनी स्थिरदर्शनश्च । साधुर्गुणं तं लभते न जातु, प्राप्नोति यं साम्यसमाधिनिष्ठः ॥ ४.१४ ॥ दुर्योधनेनाऽभिहतश्चकोप, न पाण्डवैर्यो न नुतो जहर्ष । स्तुमो भदन्तं दमदन्तमन्तः-समत्ववन्तं मुनिसत्तमं तम् ॥ ४.१५ ॥ यो दह्यमानां मिथिलां निरीक्ष्य, शक्रेण नुन्नोऽपि नमिः पुरीं स्वाम् । न मेऽत्र किञ्चिज्ज्वलतीति मेने, साम्येन तेनोरुयशो वितेने ॥ ४.१६ ॥ साम्यप्रसादास्तवपुर्ममत्वाः, सत्त्वाधिकाः स्वं ध्रुवमेव मत्वा । न सेहिरेऽति किमु तीव्रयन्त्र-निष्पीडिताः स्कन्धकसूरिशिष्याः? ॥ ४.१७ ॥ लोकोत्तरं चारुचरित्रमेतन्, मेतार्यसाधोः समतासमाधेः ।। हृदाऽप्यकुप्यन्न यदाचर्म-बंद्धेऽपि मूर्धन्ययमाप तापम् ॥ ४.१८ ॥ जज्वाल नाऽन्तश्च नराधमेन, प्रोज्ज्वालितेऽपि ज्वलनेन मौलौ । मौलिर्मुनीनां स न कैर्निषेव्यः, कृष्णानुजन्मा समतामृताब्धिः? ॥ ४.१९ ॥ गङ्गाजले यो न ज़हौ सुरेण, विद्धोऽपि शूले समतानुवेधम् । प्रयागतीर्थोदयकृन्मुनीनां, मान्यः स सूरिस्तनुजोऽनिकायाः ॥ ४.२० ॥ स्त्री-भ्रूण-गो-ब्राह्मणघातजात-पापादधःपातकृताभिमुख्याः । दृढप्रहारिप्रमुखाः क्षणेन, साम्यावलम्बात् पदमुच्चमापुः ॥ ४.२१ ॥ अप्राप्तधर्माऽपि पुरादिमार्हन्-माता शिवं यद् भगवत्यवाप । नाऽऽप्नोति पारं वचसोऽनुपाधि-समाधिसाम्यस्य विजृम्भितं तत् ॥ ४.२२ ॥ इति शुभमतिर्मत्वा साम्यप्रभावमनुत्तरं, य इह निरतो नित्यानन्दः कदापि न खिद्यते । विगलदखिलाविद्यः पूर्णस्वभावसमृद्धिमान्, स खलु लभते भावारीणां जयेन यश:श्रियम् ॥४.२३॥