________________
परिशिष्टम् अतश्चैव स्थितप्रज्ञ-भावसाधन-लक्षणे । अन्यूना-ऽभ्यधिके प्रोक्ते, योगदृष्ट्या परैरपि ॥३.३॥ नाऽज्ञानिनो विशेष्येत, यथेच्छाचरणे पुनः । ज्ञानी स्वलक्षणाभावात्, तथा चोक्तं परैरपि ॥३.४॥ "बुद्धाद्वैतस्वतत्त्वस्य, यथेच्छाचरणं यदि । शूनां तत्त्वदृशां चैव, को भेदोऽशुचिभक्षणे?" ॥३.५॥ अबुद्धिपूर्विका वृत्ति-र्न दुष्टा तत्र यद्यपि । तथापि योगजादृष्ट-महिम्ना सा न सम्भवेत् ॥३.६॥ निवृत्तमशुभाचारा-च्छुभाचारप्रवृत्तिमत् । स्याद् वा चित्तमुदासीनं, सामायिकवतो मुनेः ॥३.७॥ विधयश्च निषेधाश्च, नन्वज्ञाननियन्त्रिताः । बालस्यैवाऽऽगमे प्रोक्तो, नोद्देशः पश्यकस्य यत् ॥३.८॥ न च सामर्थ्ययोगस्य, यक्तं शास्त्रं नियामकम । कल्पातीतस्य मर्यादा-ऽप्यस्ति न ज्ञानिनः क्वचित् ॥३.९॥ भावस्य सिद्ध्यसिद्धिभ्यां, यच्चाऽकिञ्चित्करी क्रिया । ज्ञानमेव क्रियामुक्तं, राजयोगस्तदिष्यताम् ॥३.१०॥ मैवं नाऽकेवली पश्यो, नाऽपूर्वकरणं विना । धर्मसंन्यासयोगी चे-त्यन्यस्य नियता क्रिया ॥३.११॥ स्थैर्याधानाय सिद्धस्या-ऽसिद्धस्याऽनयनाय च । भावस्यैव क्रिया शान्त-चित्तानामुपयुज्यते ॥३.१२॥ क्रियाविरहितं हन्त!, ज्ञानमात्रमनर्थकम् । गतिं विना पथज्ञोऽपि, नाऽऽप्नोति पुरमीप्सितम् ॥३.१३॥ स्वानुकूलां क्रियां काले, ज्ञानपूर्णोऽप्यपेक्षते । प्रदीपः स्वप्रकाशोऽपि, तैलपूर्त्यादिकं यथा ॥३.१४॥ बाह्यभावं पुरस्कृत्य, येऽक्रिया व्यवहारतः । वदने कवलक्षेपं, विना ते तृप्तिकाङ्क्षिणः ॥३.१५॥ गुणवद्बहुमानादे-नित्यस्मृत्या च सत्क्रिया । जातं न पातयेद् भाव-मजातं जनयेदपि ॥३.१६॥ क्षायोपशमिके भावे, या क्रिया क्रियते तया । पतितस्याऽपि तद्भाव-प्रवृद्धिर्जायते पुनः ॥३.१७॥ गुणवृद्ध्यै ततः कुर्यात्, क्रियामस्खलनाय वा । एकं तु संयमस्थानं, जिनानामवतिष्ठते ॥३.१८॥ अज्ञामनाशकत्वेन, ननु ज्ञानं विशिष्यते। न हि रज्जावहिभ्रान्ति-र्गमनेन निवर्तते ॥३.१९॥ सत्यं क्रियाऽऽगमप्रोक्ता, ज्ञानिनोऽप्युपयुज्यते । सञ्चितादृष्टनाशार्थं, नासूरोऽपि यदभ्यधात् ॥३.२०॥ "तण्डुलस्य यथा धर्म, यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र!, पुरुषस्य तथा मलम् ॥३.२१॥ जीवस्य तण्डुलस्येव, मलं सहजमप्यलम् । नश्यत्येव न सन्देह -स्तस्मादुद्यमवान् भव" ॥३.२२॥ अविद्या च दिदृक्षा च, भवबीजं च वासना । सहजं च मलं चेति, पर्यायाः कर्मणः स्मृताः ॥३.२३॥ ज्ञानिनो नाऽस्त्यदृष्टं चेद्, भस्मसात्कृतकर्मणः । शरीरपातः किं न स्या-ज्जीवनादृष्टनाशतः ॥३.२४॥ शरीरमीश्वरस्येव, विदुषोऽप्यवतिष्ठते । अन्यादृष्टवशेनेति, कश्चिदाह तदक्षमम् ॥३.२५॥ शरीरं विदुषः शिष्या-द्यदृष्टाद् यदि तिष्ठति । तदाऽसुहृददृष्टेन, न नश्येदिति का प्रमा ? ॥३.२६॥ न चोपादाननाशेऽपि, क्षणं कार्यं यथेष्यते । तार्किकैः स्थितिमत् तद्व-च्चिरं विद्वत्तनुस्थितिः ॥३.२७॥ निरुपादानकार्यस्य, क्षणं यत् तार्किकैः स्थितिः । नाशहेत्वन्तराभावा-दिष्टाऽत्र च स दुर्वचः ॥३.२८॥ अन्यादृष्टस्य तत्पात-प्रतिबन्धकतां नयेत् । प्रियमाणोऽपि जीव्येत, शिष्यादृष्टवशाद् गुरुः ॥३.२९॥ स्वभावान्निरुपादानं, यदि विद्वत्तनुस्थितिः । तथापि कालनियमे, तत्र युक्तिर्न विद्यते ॥३.३०॥ उच्छृङ्खलस्य तच्चिन्त्यं, मतं वेदान्तिनो ह्यदः । प्रारब्धादृष्टतः किन्तु, ज्ञेया विद्वत्तनुस्थितिः ॥३.३१॥ तत्प्रारब्धेतरादृष्टं, ज्ञाननाश्यं यदीष्यते । लाघवेन विजातीयं, तन्नाश्यं तत् प्रकल्प्यताम् ॥३.३२॥ इत्थं च ज्ञानिनो ज्ञान-नाश्यकर्मक्षये सति । क्रियैकनाश्यकौघ-क्षयार्थं साऽपि युज्यते ॥३.३३॥ सर्वकर्मक्षये ज्ञान-कर्मणोस्तत् समुच्चयः । अन्योन्यप्रतिबन्धेन, तथा चोक्तं परैरपि ॥३.३४॥ "न यावत् सममभ्यस्तौ, ज्ञान-सत्पुरुषक्रमौ । एकोऽपि नैतयोस्तावत्, पुरुषस्येह सिध्यति" ॥३.३५॥ यथा छाद्मस्थिके ज्ञान-कर्मणी सहकृत्वरे । क्षायिके अपि विज्ञेये, तथैव मतिशालिभिः ॥३.३६॥