________________
परिशिष्टम्
योगारम्भदशास्थस्य, दुःखमन्तर्बहिःसुखम् । सुखमन्तर्बहिर्दु:खं, सिद्धयोगस्य तु ध्रुवम् ॥२.१०॥ प्रकाशशक्त्या यद्रप-मात्मनो ज्ञानमच्यते । सखं स्वरूपविश्रान्ति-शक्त्या वाच्यं तदेव त् ॥२ सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥२.१२॥ ज्ञानमग्नस्य यच्छर्म, तद् वक्तुं नैव पार्यते । नोपमेयं प्रियाश्लेषै-!ऽपि तच्चन्दनद्रवैः ॥२.१३॥ तेजोलेश्याविवृद्धिर्या, पर्यायक्रमवृद्धितः । भाषिता भगवत्यादौ, सेत्थम्भूतस्य युज्यते ॥२.१४॥ चिन्मात्रलक्षणेनाऽन्य-व्यतिरिक्तत्वमात्मनः । प्रतीयते यदश्रान्तं, तदेव ज्ञानमुत्तमम् ॥२.१५॥ शभोपयोगरूपोऽयं, समाधिः सविकल्पकः । शद्धोपयोगरूपस्तु, निर्विकल्पस्तदेकदृक् ॥२.१६॥ आद्यः सालम्बनो नाम, योगोऽनालम्बनः परः । छायाया दर्पणाभावे, मुखविश्रान्तिसन्निभः ॥२.१७॥ यद् दृश्यं यच्च निर्वाच्यं, मननीयं च यद् भुवि । तद् रूपं परसंश्लिष्टं, न शुद्धद्रव्यलक्षणम् ॥२.१८॥ अपदस्य पदं नाऽस्ती-त्युपक्रम्याऽऽगमे ततः । उपाधिमात्रव्यावृत्त्या, प्रोक्तं शुद्धात्मलक्षणम् ॥२.१९॥ "यतो वाचो निवर्तन्ते, ह्यप्राप्य मनसा सह" । इतिश्रुतिरपि व्यक्त-मेतदर्थानुसारिणी ॥२.२०॥ अतीन्द्रियं परं ब्रह्म, विशुद्धानुभवं.विना । शास्त्रयुक्तिशतेनाऽपि, नैव गम्यं कदाचन ॥२.२१॥ केषां न कल्पनादर्वी, शास्त्रक्षीरानगाहिनी । विरलास्तद्रसास्वाद-विदोऽनुभवजिह्वया ॥२.२२॥ पश्यतु ब्रह्म निर्द्वन्द्वं, निर्द्वन्द्वानुभवं विना । कथं लिपिमयी दृष्टि -र्वाङ्मयी वा मनोमयी ॥२.२३॥ न सुषुप्तिरमोहत्वा-नाऽपि च स्वाप-जागरौ । कल्पनाशिल्पविश्रान्ते-स्तुर्यैवाऽनुभवो दशा ॥२.२४॥ अधिगत्याऽखिलं शब्द-ब्रह्म शास्त्रदृशा मुनिः । स्वसंवेद्यं परं ब्रह्मा-ऽनुभवैरधिगच्छति ॥२.२५॥ ये पर्यायेषु निरता-स्ते ह्यन्यसमयस्थिताः । आत्मस्वभावनिष्ठानां, ध्रुवा स्वसमयस्थितिः ॥२.२६॥ आवापोद्वापविश्रान्ति-यंत्राऽशुद्धनयस्य तत् । शुद्धानुभवसंवेद्यं, स्वरूपं परमात्मनः ॥२.२७॥ गुणस्थानानि यावन्तिं, यावन्त्यश्चाऽपि मार्गणाः । तदन्यतरसंश्लेषो, नैवाऽतः परमात्मनः ॥२.२८॥ कर्मोपाधिंकृतान् भावान्, य आत्मन्यध्यवस्यति । तेन स्वाभाविक रूपं, न बुद्धं परमात्मनः ॥२.२९॥ यथा भृत्यैः कृतं युद्धं, स्वामिन्येवोपचर्यते । शुद्धात्मन्यविवेकेन, कर्मस्कन्धोर्जितं तथा ॥२.३०॥ मुषितत्वं यथा पान्थ-गतं पथ्युपचर्यते । तथा व्यवहरत्यज्ञ-श्चिद्रूपे कर्मविक्रियाम् ॥२.३१॥ स्वत एवं समायान्ति, कर्माण्यारब्धशक्तितः । एकक्षेत्रावगाहेन, ज्ञानी तत्र न दोषभाक् ॥२.३२॥ दारुयन्त्रस्थपाञ्चाली-नृत्यतुल्याः प्रवृत्तयः । योगिनो नैव बाधायै, ज्ञानिनो लोकवर्तिनः ॥२.३३॥ प्रारब्धादृष्टजनिता, सामयिकविवेकतः । क्रियाऽपि ज्ञानिनो व्यक्ता-मौचितीं नाऽतिवर्त्तते ॥२.३४॥ संसारे निवसन् स्वार्थ-सज्जः कज्जलवेश्मनि । लिप्यते निखिलो लोको, ज्ञानसिद्धो न लिप्यते ॥२.३५॥ नाऽहं पुद्गलभावानां, कर्ता कारयिता च न । नाऽनुमन्ताऽपि चेत्यात्म-ज्ञानवान् लिप्यते कथम्? ॥२.३६॥ लिप्यते पुद्गलस्कन्धो, न लिप्ये पुद्गलैरहम् । चित्रव्योमाऽञ्जनेनेव, ध्यायन्निति न लिप्यते ॥२.३७॥ लिप्तताज्ञानसम्पात-प्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते ॥२.३८॥ तप:श्रुतादिना मत्तः, क्रियावानपि लिप्यते । भावनाज्ञानसम्पन्नो, निष्क्रियोऽपि न लिप्यते ॥२.३९॥ समलं निर्मलं चेद-मिति द्वैतं यदा गतम् । अद्वैतं निर्मलं ब्रह्म , तदैकमवशिष्यते ॥२.४०॥ महासामान्यरूपेऽस्मिन्, मज्जन्ति नयजा भिदाः । समुद्र इव कल्लोलाः, पवनोन्माथनिर्मिताः ॥२.४१॥ षड्द्रव्यैकात्म्यसंस्पर्शि, सत्सामान्यं हि यद्यपि । परस्याऽनुपयोगित्वात्, स्वविश्रान्तं तथापि तत् ॥२.४२॥ नयेन सङ्ग्रहेणैव-मृजुसूत्रोपजीविना । सच्चिदानन्दरूपत्वं, ब्रह्मणो व्यवतिष्ठते ॥२.४३॥