________________
दशममाह्निकम् -संशयपरीक्षा
[ संशयलक्षणम् ] _संशयादेः पदार्थगणस्य प्रमाणप्रमेयपदसंगृहीतस्यापिन्यायप्रवृत्तिप्रयो जनतया पृथग्व्युत्पादनीयत्वस्य प्रागेव सथितत्वात् , प्रथमसूत्रे च प्रमेया नन्तरं संशयोद्देशात् उद्देशानुक्रमेण तस्य लक्षणं प्रतिपादयितुमाहसमानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च : विशेषापेक्षो विमर्शः संशयः ॥न्या-सू-१-१-२३ ॥
ननु ! संशयस्य समानधर्मोपपत्त्यादिकारणभेदेन *पंचविधत्वात सामान्यसक्षणम् , विभागः, विशेषलक्षणानि च वक्तव्यानि । तत्र सामान्यलक्षणेविभागे च सूत्रद्वयम, विशेषलक्षणार्थं च पंचानां तत्प्रभे. दानां सूत्रपंचकमित्येवं सप्त सूत्राणि प्रणेतुं युक्तानि। एकं चेदं सूत्रं श्रूयते । तत्कथमेतद्भविष्यति-उच्यते-सत्यमाह भवान्। कि त्वेकमेवेदं सूत्रम् आवृत्तिन्यायमाश्रित्य सप्तधा कल्पयिष्यते ॥ .
[ सूत्रविभागः] तत्र आचार्यास्तावदेवं व्याचक्षते-समानधर्मोपपत्तः, उपलब्ध्यनुपल'ध्य व्यवस्थातो विशेषापेक्षो विमर्शः संशयः, इतीयत्सूत्रं सामान्यलक्षणा
* समानधर्मोपपत्तिः, अनेकधर्मोपपत्तिः, विप्रतिपत्तिः, उपलब्ध्यवस्थ, अनुपलब्ध्यव्यवस्था इति पञ्च ॥
1 ब्धि
-ख.