________________
प्रस्तावना
_ 'अक्षपादमताम्भोधिपरिमर्शरसोत्सुकाम्। ' विगाहन्तामिमां सन्तः प्रसरन्तीं सरस्वतीम् ॥'
-न्यायमञ्जरी, उपोद्धातश्लो. ५ इति श्री जयन्मभट्टवचनेनैव आह्वयामः दर्शनविमर्शनरसिकान् पण्डितप्रवरान् इमां प्रसन्नसलिलां-सम्यकपरिशोधितां, परिष्कृततटां-विषयविभागादिसहितां, परिकर्मितसोपानावतारा-टिप्पणेन संयोजितां श्रीजयन्तमुखप्रसृतां सरस्वतीमवगाह्य प्रमोदन्तामिति ॥
यद्यप्ययं ग्रन्थः 1895 वत्सरे विजयनगरसंस्कृतग्रन्थमालायां, 1936 वत्सरे काशीचौखाम्बासंस्कृतग्रन्थमालायां च प्रकटितपूर्व एव। अथापि लमी वीनमातृकाऽलाभादितः, अन्यतो वा कुतश्चि-कारणात् अयं ग्रन्थः अतीव शोधनपरिष्करणाद्यपेक्ष एव वर्तत इति एतदध्ययनाध्यापननिरतानां पण्डितप्रवराणामतिरोहितमेव ॥
बहुषु स्थलेष्वप्रतिपत्तिविप्रतिपत्त्यन्यथाप्रतिपत्त्यादिभिः अयं प्रन्थः विदुषामतीव क्लेशावह एवं वर्तते। ग्रन्थस्तु न केवलं न्यायदर्शने, संस्कृतदर्शनवाङ्मय एवासाधारणं स्थानं वहते ॥
एतादृशस्यास्य पुनः परिष्करणाय तदा तदा सहृदया मित्रभूना विद्वांसः प्रेरयन्त एवासन् । अतः द्विवारं मुद्रितस्याप्यस्य पुनसंस्करणे आदरो निबद्धः अनेन संशोधनालयेन।
एवं संशोधनाय प्रवृत्तानामस्माकं अस्मिन्नेवालये उपलब्धा मातृका प्रायः शुद्धाऽतीवोत्तम्भयामासास्मदुत्साहम् ॥
एवं मातृकान्तरान्वेषणाय प्रवृत्तानामस्माकं, 'महीशूरपुर. विराजमानश्रीपरकालमठे एका मातृका वर्तने' इति श्रुतवतां, तत्संग्रहणायोपसर्पितवतां सा मातृका मरुमरीचिकेव हस्तापचयमप्राप्ताऽतीव खेदयामास मनः। परन्तु तन्मातृकामूलतः संशोधितः कश्चन ग्रन्थः इदानीं कीर्तिमूर्तीनां आस्थानमहाविदुषां आत्मकरु श्रीदीक्षाचार्यवर्याणां सन्निधौ वर्तत इति शास्व किञ्चिदिव समाश्वसितमभून्मनः ॥