________________
श्री चिन्तामणि पार्श्वनाथ स्तोत्र
७७
काष्ठानि वढेकणः । पीयूषस्य लवोऽपि रोगनिवहं यद्वत्तथा ते विमो, मूर्तिः स्फूर्तिमती सती त्रिजगतीकष्टानि हतु क्षमा ||६|| श्री चिन्तामणिमन्त्रमोंकृतियुतं होकारसाराश्रितं, श्रीमहं नमिऊणपासकलितं त्रैलोक्यवश्यावहम् द्वेधाभूतविषापहं विषहरं श्रेयः-प्रभावाश्रयं, सोल्लासं वसहांकितं जिनफुलिंगानन्ददं देहिनाम् ॥७|| ह्रीं श्रींकारवरं नमोऽक्षरपरं ध्यायन्ति ये योगिनो,हृत्पद्म विनिवेश्य पार्वमधिपं चिन्तामणीसंज्ञकम् । भाले वामभुजे च नाभिकरयोर् भूयो भुजे दक्षिणे, पश्चादष्टदलेषु ते शिवपदं द्वित्रैर्मवैर् यान्त्यहो |८|| नो रोगा नैव शोका, न कलहकलना, नारिमारिप्रचारा। नैवाधि
समाधिर् न च दरदुरिते दुष्टदारिद्रता नो । नो शाकिन्यो ग्रहा नो, न हरिकरिगणा, व्यालवैतालजालाः । जायन्ते पार्श्व चिन्तामणि-नतिवशतः प्राणिनां भक्तिभाजाम . ||९|| गीर्वाणद्र मधेनु-कुम्भमणयस्तस्यांगणे रिंगिणो, देवा दानवमानवाः सविनयं तस्मै हितध्यायिनः। लक्ष्मीस्तस्य वशाऽवशेव गुणिनां ब्रह्माण्डसंस्थायिनी, श्रोचिंतामणिपार्श्वनाथमनिशं संस्तौति यो ध्यायति ।१०। इति जिनपति-पावः पार्श्वपाख्यियक्षः, प्रदलितदुरितौघः प्रीणित-प्राणिसार्थः । त्रिभुवन-जनवाञ्छादान चिन्तामणीकः, शिवपद-तरुबीज बोधिबीजं ददातु ॥११||