________________
स्तोत्र-रास-संहिता
श्रीचिन्तामणि पार्श्वनाथ-स्तोत्र
किं कर्पूर-मयं सुधारसमयं किं चन्द्ररोचिर्मयं, किं लावण्यमयं महामणिमयं कारुण्यकेलीमयम् । विश्वानन्दमयं महोदयमयं शोमामयं चिन्मयं, शुक्लध्यानमयं वपुजिनपतेभूयाद् भवालम्बनम् ||१|| पातालं कलयन् धरां धवलयन्नाकाशमापूरयन्, दिक्चक्र क्रमयन् सुरासुरनरश्रेणिं च विस्मापयन् । ब्रह्मांडं सुखयन् जलानि जलधेः फेनच्छलाल्लोलयन् श्रीचिन्तामणि-पार्श्वसंभवयशोहंसश्चिरं राजते ॥२॥ पुण्यानां · विपणिस्तमोदिनमणिः कामेभकुम्भे सृणिः मोक्षे निस्सरणिः सुरद्र करिणी ज्योतिः प्रकाशारणिः । दाने देवमणि तोत्तमजनश्रेणिः 'कृपासारिणिः, विश्वानंदसुधाघृणिर्मवभिदे श्रीपाश्र्वचिन्तामणिः ॥३॥ श्रीचिन्तामणिपार्श्व विश्वजनतासंजीवनस्त्वं मया दृष्टस्तात ! ततः श्रियः समभवन्नाशक्रमाचक्रिणम् । मुक्तिः क्रीडति हस्तयोर्बहुविधं सिद्धं मनोवांछितं, दुर्दैवं दुरितं च दुर्दिनमयं कष्टं प्रणष्टं मम ||४|| यस्य प्रौढतमप्रतापतपनः प्रोद्दामधामा जगज, जंघालः कलिकालकेलिदलनो मोहान्धविध्वंसकः । नित्योद्योतपदं समस्तकमलाकेलीगृहं राजते, स श्रीपार्वजिनो जने हितकरश्चिन्तामणिःपातु माम् ||५|| विश्वव्यापितमो हिनस्ति तरणिलोपि कल्पांकुरो, दारिद्रयाणि गजावली हरिशिशुः