________________
स्तोत्र-रास-संहिता
सुधर्मोऽप्युदरास्थीनि, श्रीशान्ति भि-मण्डलम् ||१५|| श्रीकुन्थुर्गुह्यकं रक्षे-दरो रोम-कटी-तटम् । मल्लिरूरू पृष्ठिवंशं जंघे च मुनिसुव्रतः ||१६|| पादाङ्गुलीनमी रक्षेत्, श्रोनेभिश्चरणद्वयम् । श्रीपार्श्वनाथः सर्वांगं, वर्धमानश्चिदात्मकम् ॥१७|| पृथिवीजलतेजस्क-वाय्वाकाशमयं. जगत् रक्षेदशेष-पापेभ्यो, वीतरागो निरंजनः ||१८|| राजद्वारे श्मशाने वा, संग्रामे शत्रुसंकटे । व्याघूचोराग्निसर्पादिभूत-प्रेत-मयाश्रिते ||१९| अकाले-मरणे-प्राप्ते, . दारिद्रद्यापत्समाश्रिते । अपुत्रत्वे महादोषे, मूर्खत्वे रोगपीडिते ॥२०|| डाकिनी-शाकिनी-ग्रस्ते, ' महा-ग्रहगणादिते । नद्य तारेध्व-वैषम्ये, व्यसने चापदि स्मरेत् ||२१|| प्रातरेव समुत्थाय, यः स्मरेजिनपञ्जरम् । तस्य किञ्चिद्भयं नास्ति, लमते सुखसंपदम् ॥२२॥ जिनपञ्जरनामेदं, यः स्मरत्यनुवासरम् । कमलप्रमराजेन्द्र, श्रियं सलमते नरः ||२३|| प्रातः समुत्थाय पठेत् कृतज्ञो, यः स्तोत्रमेतज्जिनपञ्जराख्यम् । आसादयेत्स कमलप्रमाख्या, लक्ष्मी मनोवांच्छित पूरणाय ॥२४|| श्रीरुद्रपल्लीय-वरेण्यगच्छे, देवप्रभाचार्य-पदाब्जहंसः । वादीन्द्र-चूडामणिरेष जैनो जीयाद् गुरुः श्रीकमलप्रमाख्यः ॥२५॥