________________
जिनपञ्जर-स्तोत्र
५५
च सर्वेषां, प्रथमं भवति मंगलम् ॥२॥ ॐ ह्रीं श्री जये विजये, अहं परमात्मने नमः | कमल-प्रभसूरीन्द्रो, भाषते जिनपञ्जरम् ॥३॥ एकभक्तोपवासेन, त्रिकालं यः पठेदिदम् । मनोऽभिलषितं सर्व, फलं स लमते ध्र वम् ||४|| भूशय्याब्रह्मचर्येण, क्रोधलोमविवर्जितः । देवताग्रे पवित्रात्मा, षण्मासैलभते फलम् ॥५|| अहंतं स्थापयेद् मूटिन, सिद्धं चक्षुर्ललाटके । आचार्य श्रोत्रयोर्मध्ये, उपाध्यायं तु घाणके ||६|| साधुवृन्दं मुखस्याने, मनः शुद्धं विधाय च । सूर्य-चन्द्र-निरोधेन, सुधीः सर्वार्थसिद्धये ||७|| दक्षिणे मदन-द्वेषी, वाम-पार्वे स्थितो जिनः । अंगसंधिषु सर्वज्ञः, परमेष्ठी शिवङ्करः ||८|| पूर्वाशां श्री जिनो रक्षे,दाग्नेयीं विजितेन्द्रियः । दक्षिणाशां परब्रह्म, नैऋती च त्रिकालवित् ||९|| पश्चिमाशां जगन्नाथो, वायवीं परमेश्वरः। उत्तरां तीर्थकृत् सर्वामीशानी च निरंजनः ||१०|| पातालं भगवानहन्नाकाशं
पुरुषोत्तमः । रोहिणीप्रमुखा देव्यो, रक्षन्तु सकलं कुलम् • ||११|| ऋषमो मस्तकं रक्षे-दजितोऽपि विलोचने । संभवः
कर्ण-युगलं, नासिकां चाभिनन्दनः ॥१२|| ओष्ठौ श्रीसुमती रक्षेद्, दन्तान् पद्मप्रभो विभुः जिह्वां सुपार्श्वदेवोऽयं, तालु चन्द्रप्रभो विभुः ॥१३|कण्ठं श्रीसुविधि रक्षेद्, हृदयं श्रीसुशीतलः । श्रेयांसो बाहुयुगलं, वासुपूज्यः कर-द्वयम् ||१४|| अंगुलीविमलो रक्षेद्, अनन्तोऽसौ स्तनावपि ।